तत्रापृच्छद्ब्रह्मवध्या मम जाता महामुने
भृशं शोकपरीतात्मा रुरोद भृशदुःखितः
उवाच मा भैर्नृपते अपनेष्यामि पातकम्
उद्धृता देवदेवेन विष्णुना क्रोडमूर्त्तिना उद्धरिष्यति देवोऽसौ स्वयमेव जनार्दनः
एवमुक्तस्ततो राजा दुरितो वाक्यमब्रवीत
किमनेन द्विजेनैव निष्प्रभेण दुरात्मना
इत्युक्त्वा '? खङ्गेनैव जघान तम्
तस्मिन्नेव वने देवि पापसंघेन मोहितः 5.2.28.
क्षुधार्त्तश्च तृषार्त्तश्च बाल्यान्मोहाच्च साहसात्
जटीभूतेन पापेन बभ्राम गहने वने
व्याघ्रसिंहगजाकीर्णं मृगशंबरसेवितम्
ते गतास्त्वरिता व्याधाः स्वभर्तुः कथनाय वै
तावद्राज्ञः शरीरात्तु श्वेताऽऽभरणभूषिता
दस्यून्निहत्य सा देवी तत्रैवादर्शनं गता
अथ राजा तया मुक्तः प्रतिबुद्धोऽथ तत्क्षणात्
गोवध्या ब्रह्मवध्या च वने ह्यस्मिन्सुदारुणा
एवं स चिंतयित्वाथ निःश्वस्य च पुनःपुनः 5.2.28.
मुनिना वामदेवेन दृष्टो राजा तथाविधः
सोमवंशसमुत्पन्नो दशां कष्टां समागतः
उद्धरिष्यामि राजानमेनं पुरुषसत्तमम् प्रत्युवाच महीपालं वीरधन्वानमातुरम्
भोभो राजन्महीपाल वीरधन्वेति विश्रुतः
प्राग्भवे व्याधरूपेण निहिथा विपिने मृगान्
फाल्गुनामलपक्षे त्वामलक्येकादशी शुभा
पूजा लोकैः कृता दृष्टा विस्मयेन त्वया पुरा
तत्प्रभावादभू राजा महाबलपराक्रमः
निहताः शत्रवः सर्वे तयैव शुभमाप्स्यसि
ज्ञाता तपःप्रभावेन मया योगबलेन च 5.2.28.
इदानीं पालयिष्यामि शृणु मे वचनं परम्
इत्युक्तो वामदेवेन् मुनिना स महीपतिः
कथं यास्यंति मे हत्या गोब्राह्मणसमुद्भवाः