विमानं चाधिरोप्यैनं स्वर्लोकमनयद्धरिः
प्रभावात्तस्य देवस्य स्वर्गलोकं गताः प्रिये
स्तुतो देवगणैः सर्वैर्नरकादवतारकः
यः पश्यति नरो नित्यं देवं चानरकेश्वरम्
येनुमोदंति देवस्य दर्शनं पर्वतात्मजे
समतीतं भविष्यच्च कुलानामयुतं नरः
शिवयोगसमायुक्ता कृष्णा या च चतुर्दशी 5.2.27.
ये चायाzति नरास्तस्यां देवं चानरकेश्वरम्
कर्मणा मनसा वाचा यत्पापं समुपार्जितम्
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण मुक्तो भवति मानवः ।।.
पुरा राथंतरे कल्पे वीरधन्वा महीपतिः
स कदाचिद्वनं गत्वा मृगहेतोर्वरानने
जगाम तत्र यत्रासन्भ्रातरः पंच सुव्रताः
ते कदाचिद्वने पंच दृष्ट्वा हरिणपोतकान्
एकैकं जगृहुस्तत्र मृतास्ते त्वतिदुःखिताः
प्रायश्चित्तं समीहंतः संवर्त्तं सांसदैर्वृतम्
जातमात्रा मृगाः पंच अस्माभिर्निहताः प्रभो
ऊचे स शुद्धिमाप्नोति प्रायश्चित्ते कृते सति प्रायश्चित्ती भवेत्पूतः किल्विषं दातरि व्रजेत्
धर्म शास्त्रसमारूढा वेदखड्गधरा द्विजाः 5.2.28.
ब्रह्मच्छिद्रं जपच्छिद्रं यच्छिद्रं यज्ञकर्मणि
अच्छिद्रमिति यद्वाक्यं वदंति क्षितिदेवताः
इत्येवं वदति श्रेष्ठे संवर्ते द्विजसत्तमे
तेषामर्थे यथावृत्तं कथयामासुरेव ते
तेऽप्यूचुर्धर्मशास्त्राणि विहितानि यथार्थतः
अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः
इदानीं मृगचर्माणि परिधाय धृतव्रताः
ततो वर्षे ह्यतिक्रांते वीरधन्वा महीपतिः 5.2.28.
ते चाप्येकतरोर्मूले मृगधर्मोपजीविनः