देवत्वेऽथ मनुष्यत्वे तिर्यक्त्वेऽथ शुभाशुभम्
एतदुद्देशतो राजन्भवता कथितं मया
तदेह्यन्यत्र गच्छावि यथा दृष्टं त्वयाधुना
तदा हि सर्वैरुद्घुष्टं यातना स्थायिभिर्नृभिः त्वदंगसंगी पवनो देहान्ह्लादयते हि नः
परितापं च गात्रेभ्यः पीडा बाधाश्च कृत्स्नशः
एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः
किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् 5.2.27.
आश्विनस्य चतुर्दश्यां तस्येदं फलमीदृशम्
ततस्तद्गात्रसंसर्गी पवनो ह्लाददायकः
ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः
भुंक्ष्व भोगान्न यास्येतां यातनां पापकर्मणाम्
यदार्त्तजंतुं निर्वाणमानेतुमिति मे मतिः
तस्मान्न तावद्यास्यामि यावदेते सुदुःखिताः
प्राप्स्यंते ते यदि सुखं बहवो दुःखिते मयि
अवश्यमस्माद्गंतव्यं तस्मात्पार्थिव गम्यताम्
एतस्मिन्नंतरे धर्मः शक्रेण सहितोब्रवीत्
एह्येहि पुरुषव्याघ्र कृतमेतावता प्रभो 5.2.27.
न च मन्युस्त्वया कार्यः शृणु मे वचनं विभो
नयामि त्वामहं स्वर्गं त्वया सम्यगुपासितः
निमिरुवाच नरके मानवा धर्म पीड्यंतेऽत्र सहस्रशः
स्वर्गे त्वयापि गंतव्यं नृप पुण्येन कर्मणा
विशिष्टं मम किं पुण्यं शुभं तद्वक्तुमर्हसि
तस्यां त्वया महाबाहो महाकालवनोत्तमे
तद्विशिष्टं च ते पुण्यं तस्य संख्या न विद्यते एते नारकिकाः सर्वे क्षपयंतु स्वकर्मजाम्
यदि मत्संनिधावेषामुत्कर्षो नोपजायते
तस्माद्यत्सुकृतं किंचिद्विशिष्टतरमस्ति वै
तदुत्पन्नस्य पुण्यस्य कलामेभ्यः प्रयच्छ वै ।। 5.2.27.
तत्पुण्यस्य प्रभावेण मोक्ष्यंते नरकादिमे
ततोऽब्रवीद्धर्मराजो निमिं शक्रसमन्वितः
एतांश्च नारकान्पश्य विमुक्तान्पापकर्मणः