अगस्त्य उवाच शृणु तीर्थानि गदतो मानसानि ममानघ
सत्यतीर्थं क्षमातीर्थं तीर्थमिंद्रियनिग्रहः
ज्ञानतीर्थं तपस्तीर्थं कथितं तीर्थसप्तकम्
न तोयपूतदेहस्य स्नानमित्यभिधीयते भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु
यथा शरीरस्योद्देशाः केचिन्मध्योत्तमाः स्मृताः
तस्माद्भौमेषु तीर्थेषु मानसेषु च संवसेत् 2.8.10.
तस्मात्त्वमपि विप्रेंद्र विशुद्धेनांतरात्मना तं तु वक्ष्यामि विप्रेंद्र तीर्थयात्राविधिं क्रमात्
जायन्ते च जलेष्वेव म्रियंते च जलौकसः
विषयेष्वनिशं रागो मनसो मल उच्यते
चित्तमन्तर्गतं दुष्टं तीर्थस्नानं न शुध्यति
दानमिज्या तपः शौचं तीर्थसेवा श्रुतिस्तथा
निगृहीतेंद्रियग्रामो यत्रैव वसते नरः
एतत्ते कथितं विप्र मानसं तीर्थलक्षणम्
प्रातरुत्थाय मतिमान्संगमे स्नानमाचरेत्
चक्रतीर्थे नरः स्नात्वा दृष्ट्वा चक्रहरिं विभुम्
एकादश्यामेकादश्यामियं यात्रा शुभावहा 2.8.10.
विधाय नित्यजं कर्म अयोध्यां च विलोकयेत्
बंदीं च शीतलां चैव वटुकं च विलोकयेत्
पिण्डारकं ततो दृष्ट्वा ततो भैरवदर्शनम्
अंगारकचतुर्थ्यां तु पूर्वोक्ता देवता अपि
प्रातरुत्थाय मतिमान्ब्रह्मकुण्डजले प्लुतः
मंत्रेश्वरं ततो दृष्ट्वा महाविद्यां विलोकयेत्
स्वर्गद्वारे नरः स्नात्वा सचैलो विजितेंद्रियः सचैलस्नानतो यांति तस्मात्सचैलमाचरेत्
एषा वै गदिता यात्रा सर्वपापहरा शुभा
य एवं कुरुते यात्रां नित्यं शुभफलप्रदाम्
तस्मात्त्वमपि विप्रेंद्रः अयोध्यां व्रज मा चिरम् 2.8.10.
अयोध्या परमं स्थानमयोध्या परमं महत्
अयोध्या परमं स्थानं विष्णुचक्रे प्रतिष्ठितम्
इत्येतत्कथितं विप्र मया पृष्टं हि यत्त्वया
उवाच मधुरं वाक्यं व्यासः स तपसां निधिः