तदा लोहमये गेहे ज्वलितानलसंस्तरे
यावती वेदना देहे इह लोके प्रदृश्यते
काकैश्च वृश्चिकैर्गृध्रैर्भक्ष्यंतेऽप्यपरे नराः वदंत्यसकृदुद्विग्ना न च शांतिं लभंति वै
दुःखानि ते प्राप्नुवंति यान्यसह्यानि पार्वति निमिर्नाम महाभागो यममार्गं ददर्श ह
रौद्रं भयानकं दुर्गं पूरितं पापकर्मभिः
संपृक्तं पापकृद्गंधैर्मांसशोणितकर्द्दमैः
अधोमुखैश्च कर्कोटैर्गृध्रैश्च समभिद्रुतम् ।। 5.2.27.
वृक्षै रुधिरमांसैश्च छिन्नबाहूरुपाणिभिः
वृतं कुणपदुर्गंधैरशिवं भोगवर्जितम्
करंभवालुकाकीर्णमायसीश्च शिलाः पृथक्
स तं दुर्गंधमालक्ष्य पुरुषं तमुवाच ह
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् पुरतो दर्शयन्मार्गमित एहीत्युवाच ह
भूयः स राजा तं प्राह किंकरं विनयान्वितः
येनेदं व्यसनं प्राप्तं मया च धार्मिकेण हि
जातो विदेहविषये सम्यग्मनुजपालकः
धर्मप्रधानकल्पेन मनुनात्र यथा पुरा
नोत्सृष्टश्चैव संग्रामो नातिथिर्विमुखोऽभवत् 5.2.27.
सोऽहं कथमिमं प्राप्तो नरकं भृशदारुणम् उवाच प्रणतो भूत्वा क्रूरोऽपि प्रश्रितं वचः
किन्तु स्वल्पं कृतं पापं भवंतं स्मारयामि तत्
उक्ता या दक्षिणा श्राद्धे न दत्ता सा त्वया नृप
एतावदेव ते पापं नान्य त्किंचन विद्यते
एवं श्रुत्वा तु राजर्षिर्निमिर्दूतमथाब्रवीत्
किंचित्पृच्छामि ते तत्त्वं यथावद्वक्तुमर्हसि
पुनः पुनश्च नेत्राणि तद्वत्तेषां भवंति हि
हरंत्येषां तथा जिह्वां जायमानां पुनर्नवाम्
किमेते नष्टचित्ताश्च तुद्यंतेऽहर्निशं नराः कियत्कालं भविष्यंति तन्ममोद्दे शतो वद
तत्तेहं संप्रवक्ष्यामि संक्षेपेण यथातथम् ।। 5.2.27.
पुण्या पुण्ये हि पुरुषः पर्यायेण समश्नुते
न तु भोगादृते पुण्यं पापं कर्म च मानवः
एवमेते महापापा यातनाभिरहर्निशम्