नार्चयंति सुरान्विप्राः कर्म कुर्वंति कुत्सितम्
वैरबद्धाश्च संजाताः परस्परवधे रताः
ब्राह्मणाः सर्वभक्ष्याश्च मृषावादपरायणाः
दृश्यंते षोडशे वर्षे नराः पलितिनः प्रिये
एवंविधाः समुद्भूता नरा नार्यश्च पातकैः
कुठारैर्भिन्नमूर्द्धानः क्रकचैः पाटिताः परे
भिन्नाश्चायोमयैस्तीक्ष्णैरग्नितप्तैश्च कीलकैः 5.2.27.
क्षिप्यंते तप्तकुण्डेषु दह्यंते वह्निराशिषु
लौहैश्च शृङ्खलैर्बद्धा ह्यधोवक्त्रैश्च लंबितैः
कृमिभिर्भ्रमरैस्तीक्ष्णैर्दंशैश्च मशकैस्तथा
केचित्कृत्ताः प्रधावंति तोयार्थं च तृषातुराः
यैश्चांगैः पतितं कर्म क्रियते पुरुषैर्भुवि
ये पश्यंति गुरुं देवान्ब्राह्मणान्क्रुद्धचक्षुषा तेषां नेत्राणि भिद्यंते कृष्यंते लोहशंकुभिः
श्रवणौ च प्रपूर्यंते लौहेन शंकुना ततः
लौहैर्वेगान्निखन्यंते यैः श्रुतं गुरुनिंदनम्
शतशः पाट्यते जिह्वा वह्निवर्णैरयोमुखैः
तद्वक्त्राणि बहून्वारान्येपवादरता नराः 5.2.27.
ये निघ्नंति दुराचाराः सुरार्थायोपकल्पिते
यैरप्यालिंगिता नारी परस्य च दुरात्मभिः
स्थाप्यते वध्यते चापि प्रचंडैर्यमकिंकरैः
तदा लोहमये गेहे ज्वलितानलसंस्तरे
यावती वेदना देहे इह लोके प्रदृश्यते
काकैश्च वृश्चिकैर्गृध्रैर्भक्ष्यंतेऽप्यपरे नराः वदंत्यसकृदुद्विग्ना न च शांतिं लभंति वै
दुःखानि ते प्राप्नुवंति यान्यसह्यानि पार्वति निमिर्नाम महाभागो यममार्गं ददर्श ह
रौद्रं भयानकं दुर्गं पूरितं पापकर्मभिः
संपृक्तं पापकृद्गंधैर्मांसशोणितकर्द्दमैः
अधोमुखैश्च कर्कोटैर्गृध्रैश्च समभिद्रुतम् ।। 5.2.27.
वृक्षै रुधिरमांसैश्च छिन्नबाहूरुपाणिभिः
वृतं कुणपदुर्गंधैरशिवं भोगवर्जितम्
करंभवालुकाकीर्णमायसीश्च शिलाः पृथक्