विकरालोर्द्ध्वकेशाय भैरवाय नमोनमः
तथा दारुवनध्वंसकारिणे तिग्मशूलिने
प्रचंडदंडहस्ताय वडवाग्निमुखाय च 5.2.26.
दक्षयज्ञविनाशाय जगद्भयकराय च कपर्दिने करालाय सर्वदेवाय ते नमः
एवं स्तुतस्तदा देवि चंद्रेणांतर्हितेन च
स्तोत्रेणानेन तुष्टोऽस्मि ब्रूहि सोम किमिच्छसि
कांत्या दीप्त्या तथा मूर्त्या तथा रूपेण च प्रभो
स्वपदं कर्त्तुमिच्छामि त्वत्प्रसादान्महेश्वर
द्विजराजेन तत्प्राप्तं लिंगस्यास्य प्रसादतः
तेन सोमेश्वरोनाम विख्यातो भुवनत्रये
कृत पुण्या नरा मर्त्यास्ते यांति परमं पदम्
विमुक्तो जन्मदुःखाद्यैर्लीयते मयि मानवः
यैश्च सोमेश्वरो देवो न दृष्टो न च पूजितः 5.2.26.
एकः सोमेश्वरः पूज्यः कुष्ठरोगविनाशनः
आधारः सर्वलोकानां येन सोमेश्वरो ऽर्चितः मुक्तो भोगी निरातंको मम लोके वसेच्चिरम्
कांचनैः कुसुमैर्देवि लिंगं सोमेश्वरं प्रिये
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण स्वप्नेपि नरकः कुतः
पुरा कलियुगे देवि कल्पे वाराहसंज्ञके
निर्मर्यादा निराधारा निरौका नास्तिका जनाः
नार्चयंति सुरान्विप्राः कर्म कुर्वंति कुत्सितम्
वैरबद्धाश्च संजाताः परस्परवधे रताः
ब्राह्मणाः सर्वभक्ष्याश्च मृषावादपरायणाः
दृश्यंते षोडशे वर्षे नराः पलितिनः प्रिये
एवंविधाः समुद्भूता नरा नार्यश्च पातकैः
कुठारैर्भिन्नमूर्द्धानः क्रकचैः पाटिताः परे
भिन्नाश्चायोमयैस्तीक्ष्णैरग्नितप्तैश्च कीलकैः 5.2.27.
क्षिप्यंते तप्तकुण्डेषु दह्यंते वह्निराशिषु
लौहैश्च शृङ्खलैर्बद्धा ह्यधोवक्त्रैश्च लंबितैः
कृमिभिर्भ्रमरैस्तीक्ष्णैर्दंशैश्च मशकैस्तथा