तस्मिंस्तु मथिते देवि प्रयत्नात्केशवस्य च
तमेव देवा मनुजाः पितरश्च यशस्विनि
समुत्पन्नमथो दृष्ट्वा भगवान्प्राह केशवः 5.2.26.
इत्युक्तो वासुदेवेन प्रजाः पालयितुं शशी
तस्याग्रे नारदः सर्वं कथयामास सत्वरम्
पीडितो दक्षशापेन सोमोऽप्यंतर्हितस्तदा
तत्र गत्वा यथाशापं कथयामास गद्गदः
अयं मे प्रथमः पुत्रः पीडितः शशिना भृशम्
विष्णुना च बलं दत्तमस्मै चंद्रमसे दृढम्
तं दृष्ट्वा मधुहंतारं ब्रह्मा विष्णुमुवाच ह
स चायं पीडितो देव शशांकेन नवेन वै वृत्तांतं कथयामास ब्रह्माग्रे च पुनःपुन.
ब्रह्मापि पूर्वचंद्रार्थे विष्णुं लोकनमस्कृतम्
नमः कृष्ण नमो विष्णो नमो जिष्णो नमोनमः 5.2.26.
जयस्व गोविंद महानुभाव जयस्व विश्णो जय पद्मनाभ
एवं स्तुतस्तदा देवि ब्रह्मणा लोककारिणा
गच्छ सोम ममादेशान्महाकालवनोत्तमे तमाराधय यत्नेन स ते देहं प्रदास्यति
इत्युक्तो वासुदेवेन ब्रह्मणा च पुनः पुनः लिंगं दृष्ट्वा च तुष्टाव स्तोत्रेणानेन सुव्रते
चंद्र उवाच नमो देवाधिदेवाय त्रिनेत्राय महात्मने
भूतवेतालजुष्टाय महादेवाय शूलिने
पूष्णो दंतविनाशाय तथांधकविनाशिने
विकरालोर्द्ध्वकेशाय भैरवाय नमोनमः
तथा दारुवनध्वंसकारिणे तिग्मशूलिने
प्रचंडदंडहस्ताय वडवाग्निमुखाय च 5.2.26.
दक्षयज्ञविनाशाय जगद्भयकराय च कपर्दिने करालाय सर्वदेवाय ते नमः
एवं स्तुतस्तदा देवि चंद्रेणांतर्हितेन च
स्तोत्रेणानेन तुष्टोऽस्मि ब्रूहि सोम किमिच्छसि
कांत्या दीप्त्या तथा मूर्त्या तथा रूपेण च प्रभो
स्वपदं कर्त्तुमिच्छामि त्वत्प्रसादान्महेश्वर
द्विजराजेन तत्प्राप्तं लिंगस्यास्य प्रसादतः
तेन सोमेश्वरोनाम विख्यातो भुवनत्रये