अनेकत्वं विहायैतज्जलदेहं सनातनम्
एवमंतर्हितः सोमो गतो वै दक्षशापतः वैराजं ब्रह्मसदनं ब्रह्माणं समुपस्थिताः
तस्याग्रे कथयामासुर्नमस्कृत्य पुनःपुनः 5.2.26.
स्रष्टा च हव्यकव्यानां पाहि नः शरणागतान्
आश्वासयामास सुरान्सुश्लिष्टैर्वचनांबुभिः
शापांतं भगवान्देवो विष्णुरेव करिष्यति शरण्यं शरणं विष्णुमुपतस्थुर्गतव्यथाः
ब्रह्मणा सहिता देवि स्तुतिं चक्रुः समाहिताः नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज
नारायण जगन्नाथ देवास्त्वां शरणं गताः
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम
विना सोमेन चौषध्यो नष्टा देव महीतले
भयं त्यजध्वममरा अभयं वो ददाम्यहम्
एवमुक्त्वा तु भगवान्विसृज्य त्रिदशेश्वरान्
यदा स्मृतो न चाभ्येति तदा क्रुद्धो जनार्दनः 5.2.26.
देवैरसुरसंघैश्च मथ्यतां कलशोदधिः
अमृतं तत्र लप्स्यध्वं रत्नानि विविधानि च
मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्
सोमार्थे च पुरा देवि तथैवासुरदानवाः
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः
शिरस्युद्यम्य नाग स्य पुनः पुनरवाक्षिपत्
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा
तस्मिंस्तु मथिते देवि प्रयत्नात्केशवस्य च
तमेव देवा मनुजाः पितरश्च यशस्विनि
समुत्पन्नमथो दृष्ट्वा भगवान्प्राह केशवः 5.2.26.
इत्युक्तो वासुदेवेन प्रजाः पालयितुं शशी
तस्याग्रे नारदः सर्वं कथयामास सत्वरम्
पीडितो दक्षशापेन सोमोऽप्यंतर्हितस्तदा
तत्र गत्वा यथाशापं कथयामास गद्गदः
अयं मे प्रथमः पुत्रः पीडितः शशिना भृशम्
विष्णुना च बलं दत्तमस्मै चंद्रमसे दृढम्
तं दृष्ट्वा मधुहंतारं ब्रह्मा विष्णुमुवाच ह