मुक्तिकामो महाकाले मुक्तिर्ब्राह्मणसत्तमः 5.2.25.
मुक्तीश्वरं तदा लिंगं तस्याग्रे कथयिष्यसि
पूर्वं हि चिह्नितं कर्म देहिनो न विमुंचति
इति तस्य वचः श्रुत्वा स विप्रो ब्रह्मवित्तमः
दिष्ट्या त्वमागतो भूप दिष्ट्या ते संगतं मया
इत्युक्त्वा नृपविप्रौ तौ मुक्तिलिंगं समा गतौ
तत्क्षणात्सशरीरौ तौ तस्मिँल्लिंगे लयं गतौ
अस्य लिंगस्य संस्पर्शान्मुक्तिर्भवति नान्यथा अपि पापसमायुक्तः स याति परमां गतिम्
रे मूढाः किं तपोभिश्च किं दानैर्नियमैश्च किम्
न मां विदुर्देवगणा नासुरा न महर्षयः
न मे वेत्ति परं रूपं स्वयं साक्षात्प्रजापतिः 5.2.25.
यदेतद्दृश्यते तेजो लिंगरूपं यशस्विनि
अनेकजन्मसंशुद्धा योगिनोऽनुग्रहान्मम
ईश्वर उवाच यस्य दर्शनमात्रेण निष्कलंको नरो भवेत्
अत्रिर्नाम महाभागो ब्रह्मणो मानसः सुतः
तस्य पुत्रोऽभवत्सोमो दक्षोथ मातृभागतः
सोमपत्न्यो हि मंतव्यास्तासां श्रेष्ठा तु रोहिणी
इतराः प्रोचुरागत्य दक्षस्याग्रे यथातथम्
यदा न वारितस्तस्थौ दक्षः कुद्धस्तदा प्रिये
एवं शप्तस्तु सोमो वै तदा ह्यंतर्हितोऽभवत्
अनेकत्वं विहायैतज्जलदेहं सनातनम्
एवमंतर्हितः सोमो गतो वै दक्षशापतः वैराजं ब्रह्मसदनं ब्रह्माणं समुपस्थिताः
तस्याग्रे कथयामासुर्नमस्कृत्य पुनःपुनः 5.2.26.
स्रष्टा च हव्यकव्यानां पाहि नः शरणागतान्
आश्वासयामास सुरान्सुश्लिष्टैर्वचनांबुभिः
शापांतं भगवान्देवो विष्णुरेव करिष्यति शरण्यं शरणं विष्णुमुपतस्थुर्गतव्यथाः
ब्रह्मणा सहिता देवि स्तुतिं चक्रुः समाहिताः नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज
नारायण जगन्नाथ देवास्त्वां शरणं गताः
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम
विना सोमेन चौषध्यो नष्टा देव महीतले