नित्यं क्रोधाच्छ्रियं रक्षेद्धनं रक्षेत्समत्सरात् 5.2.25.
मयाऽज्ञानात्कृतं पापं राजगर्वेण दैवतः
अथ तुष्टा द्विजाः सर्वे त ऊचुर्मामिदं मुदा
मांसभोक्ता च भविता कञ्चित्कालं नराधिप
अंतर्जलगतेनोक्तो नमो नारायणेति च
एवं स भवता प्रोक्तो नमो नारायणेति च
जातोऽहं दिव्यदेहस्तु प्रसादात्तव सुव्रत
वरं च गृह्यतां मत्तो यश्च ते संशयो हृदि
तवोपदेशदानेन आनृण्यं गंतु मुत्सहे
इति तस्य वचः श्रुत्वा दिव्यदेहस्य स द्विजः
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः 5.2.25.
श्रुतं देवेन संप्रोक्तं स्नात्वा पश्यंति देहिनः
तेजोमयं शरीरं तु ब्रह्मरूपं सनातनम्
कारणं श्रोतुमिच्छामि हृदि मे वर्त्तते चिरम्
योगाभ्यासरतेनापि वत्सरांश्च त्रयोदश
अत्र मे संशयो जातः को हेतुः कथ्यतां भृशम्
तस्य तद्वचन श्रुत्वा ततो वचनमब्रवीत्
महादेवमुपास्याशु मुने मुक्तिः सुदुर्लभा
शृणुष्वैकमना विप्र कुरु यत्नं यथार्थतः
शप्तोऽहं तैर्यदा विप्रैस्तदा मे तोषिता भृशम्
मुक्तिकामो महाकाले मुक्तिर्ब्राह्मणसत्तमः 5.2.25.
मुक्तीश्वरं तदा लिंगं तस्याग्रे कथयिष्यसि
पूर्वं हि चिह्नितं कर्म देहिनो न विमुंचति
इति तस्य वचः श्रुत्वा स विप्रो ब्रह्मवित्तमः
दिष्ट्या त्वमागतो भूप दिष्ट्या ते संगतं मया
इत्युक्त्वा नृपविप्रौ तौ मुक्तिलिंगं समा गतौ
तत्क्षणात्सशरीरौ तौ तस्मिँल्लिंगे लयं गतौ
अस्य लिंगस्य संस्पर्शान्मुक्तिर्भवति नान्यथा अपि पापसमायुक्तः स याति परमां गतिम्
रे मूढाः किं तपोभिश्च किं दानैर्नियमैश्च किम्
न मां विदुर्देवगणा नासुरा न महर्षयः