तथैव दीप्ततपसां मुनीनां भावितात्मनाम् 5.2.25.
ब्राह्मणानां परीभावाद्वातापिश्च दुरात्मवान्
सर्वभक्षः कृतो वह्निर्भृगुणा कारणांतरे
दशधा केशवो जज्ञे ब्रह्मशा पात्सुदुस्तरात्
अश्विनौ देवभिषजौ च्यवनेन महात्मना
कार्त्तवीर्यार्जुनेनैव बाहूनां च सहस्रकम्
पुरा सेंद्रा वशिष्ठेन रक्षितास्त्रि दिवौकसः
लोकालोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः
भस्मीकुर्युर्जगदिदं कुद्धाः प्रत्यक्षदर्शनाः
क्रोधश्च विपुलः सद्यः सद्यः प्रत्य यकारकः
नित्यं क्रोधाच्छ्रियं रक्षेद्धनं रक्षेत्समत्सरात् 5.2.25.
मयाऽज्ञानात्कृतं पापं राजगर्वेण दैवतः
अथ तुष्टा द्विजाः सर्वे त ऊचुर्मामिदं मुदा
मांसभोक्ता च भविता कञ्चित्कालं नराधिप
अंतर्जलगतेनोक्तो नमो नारायणेति च
एवं स भवता प्रोक्तो नमो नारायणेति च
जातोऽहं दिव्यदेहस्तु प्रसादात्तव सुव्रत
वरं च गृह्यतां मत्तो यश्च ते संशयो हृदि
तवोपदेशदानेन आनृण्यं गंतु मुत्सहे
इति तस्य वचः श्रुत्वा दिव्यदेहस्य स द्विजः
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः 5.2.25.
श्रुतं देवेन संप्रोक्तं स्नात्वा पश्यंति देहिनः
तेजोमयं शरीरं तु ब्रह्मरूपं सनातनम्
कारणं श्रोतुमिच्छामि हृदि मे वर्त्तते चिरम्
योगाभ्यासरतेनापि वत्सरांश्च त्रयोदश
अत्र मे संशयो जातः को हेतुः कथ्यतां भृशम्
तस्य तद्वचन श्रुत्वा ततो वचनमब्रवीत्
महादेवमुपास्याशु मुने मुक्तिः सुदुर्लभा
शृणुष्वैकमना विप्र कुरु यत्नं यथार्थतः
शप्तोऽहं तैर्यदा विप्रैस्तदा मे तोषिता भृशम्