ब्राह्मणानां सहस्राणि स्त्रीणामयुतशस्तथा 5.2.25.
न च मे व्यथितं चित्तं कदाचिदपि जायते
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि
ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुंगवः
स्नात्वा सद्यः समायातो मुक्ति लिंगसमीपतः
तत्क्षणाद्दिव्यदेहस्तु तस्मिँल्लिंगे लयं गतः चिंतयामास सहसा मुक्तिः प्राप्ता वरानने
व्याधेन पापयुक्तेन समाधिरहितेन च
न प्राप्ता परमा मूर्त्तिर्मुक्तिर्नैव च लभ्यते अन्तर्जलगतो भूत्वा चचार विपुलं तपः
कस्यचित्त्वथ कालस्य तां नदीमगमत्किल
अंतर्जलचरं विप्रं यावद्व्याघ्रो जिघृक्षति
व्याघ्रेणापि श्रुतो मंत्रोऽजहात्प्राणांश्च तत्क्षणात् दिव्यालंकारशोभाढ्यः पुरुषश्चाभवच्छुभः ।। 5.2.25.
सोऽब्रवीद्यामि तं देशं यत्र विष्णुः सनातनः
इत्युक्ते ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ
दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः
शुभाशुभमहं वेद्मि सर्वज्ञोऽहं महीतले
तस्यैकस्मिन्दिने विप्राः सर्वे क्रोधसमन्विताः
अपमानेन विप्राणां मांसाहारी भयावहः
इत्युक्तोऽहं पुरा तैस्तु ब्राह्म णैर्वेदपारगैः
ततस्ते ब्राह्मणाः सर्वे प्रणिपत्य मया मुने
जानामि तेजो विप्राणां महाभाग्यं च धीमताम्
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् 5.2.25.
ब्राह्मणानां परीभावाद्वातापिश्च दुरात्मवान्
सर्वभक्षः कृतो वह्निर्भृगुणा कारणांतरे
दशधा केशवो जज्ञे ब्रह्मशा पात्सुदुस्तरात्
अश्विनौ देवभिषजौ च्यवनेन महात्मना
कार्त्तवीर्यार्जुनेनैव बाहूनां च सहस्रकम्
पुरा सेंद्रा वशिष्ठेन रक्षितास्त्रि दिवौकसः
लोकालोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः
भस्मीकुर्युर्जगदिदं कुद्धाः प्रत्यक्षदर्शनाः
क्रोधश्च विपुलः सद्यः सद्यः प्रत्य यकारकः