महालयेश्वरे पुण्ये पूजिते परमेश्वरे भवंतीह महाभागे यतस्तैरपि पूज्यते
यस्य दर्शनमात्रेण मुक्तिर्भवति पार्वति
पुरा राथंतरे कल्पे बभूव द्विजसत्तमः
महाकालसमीपे तु मुक्तिलिंगमनुत्तमम्
ततस्तेपे जिताहारो वत्सराणि त्रयोदश
शिप्रां विप्रप्रियां पुण्यां महापातकना शिनीम्
व्याधं महाधनुष्पाणिं रक्तनेत्रं सुभीषणम्
तं दृष्ट्वा क्षुभितो विप्रो ब्रह्मघ्नस्य भयादिति
तं दृष्ट्वांतर्गतहरिर्व्याधो भीत इवाग्रतः
इदानीं स्वगता बुद्धिस्त्वां दृष्ट्वैव महाप्रभम्
ब्राह्मणानां सहस्राणि स्त्रीणामयुतशस्तथा 5.2.25.
न च मे व्यथितं चित्तं कदाचिदपि जायते
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि
ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुंगवः
स्नात्वा सद्यः समायातो मुक्ति लिंगसमीपतः
तत्क्षणाद्दिव्यदेहस्तु तस्मिँल्लिंगे लयं गतः चिंतयामास सहसा मुक्तिः प्राप्ता वरानने
व्याधेन पापयुक्तेन समाधिरहितेन च
न प्राप्ता परमा मूर्त्तिर्मुक्तिर्नैव च लभ्यते अन्तर्जलगतो भूत्वा चचार विपुलं तपः
कस्यचित्त्वथ कालस्य तां नदीमगमत्किल
अंतर्जलचरं विप्रं यावद्व्याघ्रो जिघृक्षति
व्याघ्रेणापि श्रुतो मंत्रोऽजहात्प्राणांश्च तत्क्षणात् दिव्यालंकारशोभाढ्यः पुरुषश्चाभवच्छुभः ।। 5.2.25.
सोऽब्रवीद्यामि तं देशं यत्र विष्णुः सनातनः
इत्युक्ते ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ
दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः
शुभाशुभमहं वेद्मि सर्वज्ञोऽहं महीतले
तस्यैकस्मिन्दिने विप्राः सर्वे क्रोधसमन्विताः
अपमानेन विप्राणां मांसाहारी भयावहः
इत्युक्तोऽहं पुरा तैस्तु ब्राह्म णैर्वेदपारगैः
ततस्ते ब्राह्मणाः सर्वे प्रणिपत्य मया मुने
जानामि तेजो विप्राणां महाभाग्यं च धीमताम्