नियमस्थं नरं दृष्ट्वा जन्मस्थाने विशेषतः
तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात्
मन्वंतरसहस्रैस्तु काशीवासेषु यत्फलम् .
गयाश्राद्धं च ये कृत्वा पुरुषोत्तम दर्शनम्
मथुरायां कल्पमेकं वसते मानवो यदि
पुष्करेषु प्रयागेषु माघे वा कार्त्तिके तथा 2.8.10.
कल्पकोटिसहस्राणि ह्यवन्तीवासतो हि यत्
षष्टिवर्षसहस्राणि भागीरथ्यवगाहजम्
निमिषं निमिषार्द्धं वा प्राणिनां रामचिन्तनम्
यत्र कुत्र स्थितो यस्तु ह्ययोध्यां मनसा स्मरेत्
जलरूपेण ब्रह्मैव सरयूर्मोक्षदा सदा
पशुपक्षिमृगाश्चैव ये चान्ये पापयोनयः
इत्युक्त्वा विरते तस्मिन्मुनौ कलशजन्मनि
दुर्लभा सर्वजन्तूनां कथा विस्तरतः क्रमात्
इदानीं श्रोतुमिच्छामि क्षेत्रस्थानं यथाविधि
फलं ब्रूहि क्रमेणैव विस्तरात्पृच्छतो मम 2.8.10.
यथा श्रुत्वा क्रमेणैव यात्रां विश्वविदां वर
अयोध्यां सप्ततीर्थानां यथावदनुपूर्वशः
मनोवाक्कायशुद्धेन निर्दोषेणांतरात्मना यः करोति विधिं सम्यक्स तीर्थफलमश्नुते
येषु स्नातवतां नॄणां विशुद्धिर्मनसो भवेत्
अगस्त्य उवाच शृणु तीर्थानि गदतो मानसानि ममानघ
सत्यतीर्थं क्षमातीर्थं तीर्थमिंद्रियनिग्रहः
ज्ञानतीर्थं तपस्तीर्थं कथितं तीर्थसप्तकम्
न तोयपूतदेहस्य स्नानमित्यभिधीयते भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु
यथा शरीरस्योद्देशाः केचिन्मध्योत्तमाः स्मृताः
तस्माद्भौमेषु तीर्थेषु मानसेषु च संवसेत् 2.8.10.
तस्मात्त्वमपि विप्रेंद्र विशुद्धेनांतरात्मना तं तु वक्ष्यामि विप्रेंद्र तीर्थयात्राविधिं क्रमात्
जायन्ते च जलेष्वेव म्रियंते च जलौकसः
विषयेष्वनिशं रागो मनसो मल उच्यते
चित्तमन्तर्गतं दुष्टं तीर्थस्नानं न शुध्यति