महर्षयो विशोकाश्च गंधर्वाश्च कलं जगुः
सुरैः संपूज्य भक्त्या ते चक्रुर्नाम यथार्थतः
मेघनादेश्वरं नाम भविष्यत्यस्य सर्वतः
भविष्यंति नरा भूमौ कृतार्थास्तत्प्रभावतः
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
प्रभावः पठ्यते यत्र मेघनादस्य पार्वति
ब्रह्मादिस्तंबपर्यंतं त्रैलोक्यं सचरा चरम्
उत्पादितं धृतं व्याप्तं त्वया देव मया श्रुतम्
अत्यर्थं मुनयः सर्वे मुदिता मौनिनो ऽव्ययाः
त्वया सर्वमिदं सृष्टं त्रैलोक्यं भूर्भुवादिकम्
देवदानवगंधर्वमुनिचारणभोगिनाम्
जगच्चराचरं देव कुत्र स्थित्वासृजस्य लम्
कोऽसौ महालयो रौद्रग्रहरूपी व्यवस्थितः
इति पृष्टस्त्वया देवि मया ते कथितं पुरा
पृथिव्यादीनि भूतानि महाकालवने प्रिये
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम् 5.2.24.
परं ब्रह्ममयं लिंगं तत्र तिष्ठति सर्वदा
तत्र ब्रह्मादयो देवा विष्णुस्तत्रैव संस्थितः तस्माल्लिंगात्समुत्पन्नो महानात्मा महामतिः
भूतादिश्चाप्यहंकारो विष्णुः शंभुश्च पार्वति
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्
अस्माद्भूतानि लिंगानि महाभूतानि पञ्च वै
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम्
चतुर्द्धा जन्मचिह्नं यल्लिंगेस्मिन्नेव लक्ष्यते
रजःसत्त्वं तमोभावस्तस्माल्लिंगाच्च जायते
अव्यक्तकारणं सूक्ष्मं यत्तत्सदसदात्मकम्
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि 5.2.24.
आपो द्यौः पृथिवी वायुरंतरिक्षं दिशस्तथा
यच्चान्यदपि तत्सर्वं संभूतं लोक साक्षिकम्
अतो महालयोनाम विख्यातो भुवनत्रये
यः पूजयति तल्लिंगं रुद्रमूर्त्या महालयम्