रौरवे कुम्भिपाके च महारौरवसंज्ञके
मूषायां धीमतो राजन्नसिपत्रे च दारितः
विधाय कार्कटं रूपं यमेन त्वयि पार्थिव
दत्तं जप्तं कृतं यच्च हुतं देवार्चनादि यत्
निक्षिप्तस्त्वं तदा तेन भाविपुण्येन कर्मणा
कदाचित्तीरभूम्यां त्वं गतः संक्रीडितुं शनैः
आकाशमार्गं चोड्डीनः स त्वया ताडितो भृशम्
मुक्तस्त्वं चंचुपुटतो वायसेनाकुलेन तु
शिवस्य क्षिप्तस्त्वं शीघ्रं चञ्च्वाक्षेपप्रपीडितः 5.2.22.
विमुच्य देहं तज्जीर्णं यावत्तं कार्कटं पुरा
तस्य लिंगस्य माहात्म्याद्भूत्वा विद्याधरेश्वरः
स्वर्गे व्रजंस्त्वं संपृष्टः सुरसंघैश्च सादरम्
ततो रुद्रगणैः सर्वं सुराणां कथितं पुरा
तस्य लिंगस्य देवेशाः प्रभावोऽयमुपस्थितः
कार्कटीयोनि मुक्तस्य प्राप्तं स्वर्गसुखं यतः
तदाप्रभृति देवोऽयं कर्कटेश्वरसंज्ञकः
आगतोऽसि पुनर्भूमौ लब्धं राज्यमकंटकम्
तस्मात्पार्थिव भूयस्त्वं लिंगमाराधय द्रुतम्
पूर्वं कर्म स्मृतं तेन स्वकीयं पार्थिवेन तु 5.2.22.
तस्मिँल्लिंगे लयं प्राप्तः स्वशरीरेण पार्वति भुक्त्वा भोगांश्चिरं भूमौ ते यांति परमां गतिम्
नियमेन प्रपश्यंति ये देवं कर्कटेश्वरम्
सूर्यदीप्तिप्रतीकाशैर्विमानैः सार्वकामिकैः
तत्र दिव्यैर्महाभोगैः स्त्रीसहस्रैर्मनोरमैः
तदंते विष्णुभवने तावत्कालं च संति हि
विष्णुलोकाद्ब्रह्मलोकं संप्राप्य मुदिताः पुनः
दशाश्वमैधैर्यत्पुण्यं तत्फलं तीर्थयात्रया
यस्य दर्शनमात्रेण प्राप्यते सर्वसिद्धयः
राजमूला महादेवि योगक्षेमाः सुवृष्टयः
राजा कृतं तथा त्रेता द्वापरश्च तथा कलिः
राजा बभूव लोकेऽस्मिन्मदांधोनाम पार्वति