रूपेण निर्जितः कामस्तेनाप्रतिमतेजसा कोऽयं प्रभावो येनाहं शापान्मुक्तः सुदुस्तरात् ।। 5.2.21.
प्रियां पप्रच्छ नृपतिः पूर्णेन्दुवदनां भृशम्
अथ सा कथयामास वृत्तांतं विस्तरान्मुदा
राजञ्छापाद्विमुक्तोऽसि लिंगस्यास्य प्रभावतः
तया सार्द्धं ययौ राजा स्वर्गं सुरगणैः स्तुतः
विख्यातं देवि लोकेऽस्मिन्सर्वकामफलप्रदम् तिर्यग्योनिं न यास्यंति न वियोगो भविष्यति
न चापि नरकावाप्तिर्न दुःखं न जरा भयम्
रूपसौभाग्यसंपन्ना भविष्यंति युगेयुगे तेषां कुले च ये केचित्पितरो निरयस्थिताः
तिर्यग्योनिगता ये च पशुयोनिं तु ये गताः
यस्य दर्शनमात्रेण तिर्यग्योनिर्न दृश्यते
आसीत्पुरा बृहत्कल्पे धर्म मूर्तिर्जनाधिपः
सोमसूर्यादयो यस्य तेजसा निष्प्रभाः कृताः
यथेच्छारूपधारी च संग्रामेष्वपराजितः
राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी
नृपो नृपसहस्रेण न कदाचित्प्रमुच्यते विस्मयेनावृतमना वशिष्ठमृषिसत्तमम्
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा
वशिष्ठ उवाच पुरा त्वमवनीपाऽऽसीः शूद्रजातिसमुद्भवः
निवसन्दुष्टहृदयो वर्षाणि सुबहून्यपि
सदा ब्रह्मस्वहारी त्वं सदा वेदविनिंदकः 5.2.22.
अथ पंचत्वमापन्नः काले नरकमाप्तवान्
रौरवे कुम्भिपाके च महारौरवसंज्ञके
मूषायां धीमतो राजन्नसिपत्रे च दारितः
विधाय कार्कटं रूपं यमेन त्वयि पार्थिव
दत्तं जप्तं कृतं यच्च हुतं देवार्चनादि यत्
निक्षिप्तस्त्वं तदा तेन भाविपुण्येन कर्मणा
कदाचित्तीरभूम्यां त्वं गतः संक्रीडितुं शनैः
आकाशमार्गं चोड्डीनः स त्वया ताडितो भृशम्
मुक्तस्त्वं चंचुपुटतो वायसेनाकुलेन तु
शिवस्य क्षिप्तस्त्वं शीघ्रं चञ्च्वाक्षेपप्रपीडितः 5.2.22.
विमुच्य देहं तज्जीर्णं यावत्तं कार्कटं पुरा