यस्य पूजावशान्नॄणां सिद्धयः करसंश्रिताः
सरयूसलिले स्नात्वा पिंडारकं च पूजयेत्
तस्य यात्रा विधातव्या सपुष्या नवरात्रिषु
यस्य दर्शनतो नॄणां विघ्नलेशो न विद्यते
तस्मात्स्थानत ऐशाने रामजन्म प्रवर्त्तते
विघ्नेश्वरात्पूर्वभागे वासिष्ठादुत्तरे तथा
यद्दृष्ट्वा च मनुष्यस्य गर्भवासजयो भवेत् 2.8.10.
नवमीदिवसे प्राप्ते व्रतधारी हि मानवः
कपिलागोसहस्राणि यो ददाति दिनेदिने
आश्रमे वसतां पुंसां तापसानां च यत्फलम्
नियमस्थं नरं दृष्ट्वा जन्मस्थाने विशेषतः
तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात्
मन्वंतरसहस्रैस्तु काशीवासेषु यत्फलम् .
गयाश्राद्धं च ये कृत्वा पुरुषोत्तम दर्शनम्
मथुरायां कल्पमेकं वसते मानवो यदि
पुष्करेषु प्रयागेषु माघे वा कार्त्तिके तथा 2.8.10.
कल्पकोटिसहस्राणि ह्यवन्तीवासतो हि यत्
षष्टिवर्षसहस्राणि भागीरथ्यवगाहजम्
निमिषं निमिषार्द्धं वा प्राणिनां रामचिन्तनम्
यत्र कुत्र स्थितो यस्तु ह्ययोध्यां मनसा स्मरेत्
जलरूपेण ब्रह्मैव सरयूर्मोक्षदा सदा
पशुपक्षिमृगाश्चैव ये चान्ये पापयोनयः
इत्युक्त्वा विरते तस्मिन्मुनौ कलशजन्मनि
दुर्लभा सर्वजन्तूनां कथा विस्तरतः क्रमात्
इदानीं श्रोतुमिच्छामि क्षेत्रस्थानं यथाविधि
फलं ब्रूहि क्रमेणैव विस्तरात्पृच्छतो मम 2.8.10.
यथा श्रुत्वा क्रमेणैव यात्रां विश्वविदां वर
अयोध्यां सप्ततीर्थानां यथावदनुपूर्वशः
मनोवाक्कायशुद्धेन निर्दोषेणांतरात्मना यः करोति विधिं सम्यक्स तीर्थफलमश्नुते
येषु स्नातवतां नॄणां विशुद्धिर्मनसो भवेत्