वाजिनो वारणाश्चैव धनधान्यमनंतकम् 5.2.21.
केन कर्मविपाकेन ममेदं यौवनं दृढम्
दृश्यते वासरे भागे रात्रौ चैव न दृश्यते
दुष्कृतावर्जनं ब्रह्मन्ममेदं वक्तुमर्हसि
शृणु पुत्रि पुरावृत्तं बालभावेन यत्कृतम्
विदूरथस्य तनयस्तव भर्ता स निश्चितम्
बहवः कुक्कुटास्तेन भक्षिता राजसूनुना
एवं भक्षयतस्तस्य बहुशो वत्सरा गताः पृष्टाः किं कारणं नात्र समायांति हि कुक्कुटाः
अथ केनापि कथितं कुक्कुटानां च भक्षणम् भक्षिताः कुक्कुटाः सर्वे विना कारणतो नृप
ताम्रचूडोऽथ संक्रुद्धो ददौ शापं दुरात्मने
तदाप्रभृत्यभूत्क्षीणो राजपुत्रो दिनेदिने 5.2.21.
अथ केनापि कामेन वामदेवाश्रमं गतः पप्रच्छ वामदेवं स नमस्कृत्य पुनःपुनः
भगवन्केन पापेन क्षीयतेऽहर्निशं वपुः
वामदेवोऽथ तं प्राह कुक्कुटा भक्षितास्त्वया
तमेव शरणं गच्छ स उपायं वदिष्यति
दृष्ट्वा च ताम्रचूडं तं महाभक्त्या कृतांजलिः
अज्ञानाद्भक्षिता देव कुक्कुटाः पुष्टिकारणात्
प्रोवाच ताम्रचूडोऽथ यस्मात्प्रार्थयसे नृप
शास्ता गोप्ता च लोकानां राजा दंडधरः प्रभुः
अतो न दृश्यते पुत्रि तिर्यग्भावं समाश्रितः
इति तस्य वचः श्रुत्वा गालवस्य महात्मनः पप्रच्छ परया भक्त्या शापांतो हि कथं भवेत् ।। 5.2.21.
गालवः कथयामास ध्यानेनालोक्य यत्नतः
महाकाल वने लिंगं पक्षियोनिविमोचनम् तस्य दर्शनमात्रेण शापस्यांतो भविष्यति
सा प्रणम्य मुनिश्रेष्ठमाजगाम त्वरान्विता
प्रफुल्लनयनाभ्यां सा दृष्टा लोलेक्षणा प्रिया
ततस्तेन तदा राज्ञा प्रोक्ता सा मृगलोचना
तया प्रोक्तं महाराज गम्यतेऽद्य मया सह
तस्यास्तद्वचनं श्रुत्वा त्वरमाणो मुदान्वितः
पूजयित्वाथ तल्लिंगं पक्षियोनिविमोचनम्
तस्यां रात्रौ न संजातः कुक्कुटो यादृशः सदा