मनसा ये स्मरिष्यति प्रतीहारेश्वरं शिवम्
ईश्वर उवाच यस्य दर्शनमात्रेण तिर्यग्योनिर्न लभ्यते
कौशिकोनाम राजाभूत्कुक्कुटो जायते सदा
व्याप्ता च पृथिवी तेन सशैलवनकानना
विशालानाम विख्याता भार्या तस्य महीपतेः
तया चकार सहितः स राज्यं राजसत्तमः
तया सार्द्धं कदाचिच्च सुरतं नास्ति पार्वति
एवं गच्छति काले तु सह राज्ञा स्मरातुरा ददर्श कीटमिथुनमनंगकलहातुरम्
प्रसादयंस्तथा कीटः स्वां प्रियां च मुहुर्मुहुः
भजस्व मां यथाकाममनंगशरपीडितम्
न त्वया सदृशी लोके कामिनी विद्यते क्वचित् 5.2.21.
कुतो वा मयि दीने त्वं क्रुद्धेव प्रियवादिनि
सा तमाह प्रकोपाच्च किमालपसि मां वृथा प्रदत्तं कामलुब्धेन अन्यस्य कीटकाधम
नाहमेवं करिष्यामि कीटः प्राह पुनःपुनः
इति तद्वचनं श्रुत्वा सा प्रसन्नाभवत्तदा
दृष्ट्वा तन्महदाश्चर्यं सा राज्ञी विललाप ह न कामिताहं कांतेन मरिष्यामि न संशयः
एवं विलप्य बहुधा विनिःश्वस्य पुनःपुनः
दृष्ट्वा तमृषिमासीनं तपोयोनिं दृढव्रतम्
एकोऽयं संशयो ब्रह्मन्हृदये परिवर्त्तते न जाने कारणं किं तु संगमो नोपजायते
यो गत्वा प्रमदाराज्यं जित्वा सर्वाः पुरा रणे नैव कामयते तासु किमेतदिति सुव्रत
वाजिनो वारणाश्चैव धनधान्यमनंतकम् 5.2.21.
केन कर्मविपाकेन ममेदं यौवनं दृढम्
दृश्यते वासरे भागे रात्रौ चैव न दृश्यते
दुष्कृतावर्जनं ब्रह्मन्ममेदं वक्तुमर्हसि
शृणु पुत्रि पुरावृत्तं बालभावेन यत्कृतम्
विदूरथस्य तनयस्तव भर्ता स निश्चितम्
बहवः कुक्कुटास्तेन भक्षिता राजसूनुना
एवं भक्षयतस्तस्य बहुशो वत्सरा गताः पृष्टाः किं कारणं नात्र समायांति हि कुक्कुटाः
अथ केनापि कथितं कुक्कुटानां च भक्षणम् भक्षिताः कुक्कुटाः सर्वे विना कारणतो नृप
ताम्रचूडोऽथ संक्रुद्धो ददौ शापं दुरात्मने