आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम्
प्राप्नोत्यभिमतान्कामान्देवानामपि दुर्लभान्
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण धनवानिह जायते
दक्षकोपात्त्वं च देवि पुरा प्राणैर्विसर्जितैः
प्रारब्धा च मया देवि त्वया सार्द्धं रतिस्तदा अनुरागवशाच्चैव मन्मथेन प्रपीडिता
महारतिं समीक्ष्याथ देवाः संक्षुब्धमानसाः
दिव्यं वर्षशतं रुद्रो गौर्या सह सदा रतिम्
अनयोर्बीजसंपत्योः पुत्रो यो हि भवेत्तदा
तस्य तेजोपि नो वोढुं समर्था निश्चितं वयम्
उपायं दृष्टवांस्तत्र देवानां गुरुरग्रणीः
गच्छंतु त्रिदशाः सर्वे शिवस्य तु समीपतः
इति निश्चित्य ते देवि जग्मुः शीघ्रं सुरास्तदा 5.2.20.
गणानामधिपो नंदी द्वारि तिष्ठति यत्नतः
अथ प्रवेशो देवानां दुष्करो मम पार्श्वतः
अग्निना तद्धितं वाक्यमुक्तं तेषां पुरः शुभम्
वंचयित्वा प्रतीहारं कृतं तेन तथैव च
इन्द्राद्या अमरा देवा द्वारि तिष्ठंति संयताः
ततश्च तै- कुतो मह्यं प्रणामश्च यथाक्रमम्
तैरुक्तं त्यज्यतां चैव संभोगस्तु सुदारुणः
ततः शप्तो मया नंदी भूलोकं गच्छ सत्वरम्
सोच्छ्वासहृदयो दीनो दुःखव्याकुललोचनः
वंचितश्चाग्निना बाढं वासवेन विशेषतः 5.2.20.
स दृष्टो लोकपालैस्तु तामवस्थां गतो गणः
सर्वं निवेदितं तेन तेषामग्रे च नंदिना
ततश्च वचनं श्रुत्वा नंदी रोमांचकंचुकः पूजयामास विधिवद्धृत्वा कपालिकीं तनुम्
अशरीरसमुत्पन्ना वाणी लिंगात्तदा प्रिये पूजितोऽसौ महाभक्त्या प्रतीहारेण नंदिना
तदाप्रभृति लोकेस्मिन्प्रतीहारेश्वरेश्वरः प्रभावः सर्वलोकानामत्यभीष्टफलप्रदः
पूजयिष्यंति ये भक्त्या प्रतीहारेश्वरं शिवम्
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु