अंतरिक्षस्थितो जिष्णुरद्राक्षीच्च सुरैः सह
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च
निर्माल्यलंघनाद्दोषो महान्भवति निश्चितम्
निर्माल्यदोषभीतास्ते क्षेत्रे न विविशुः सुराः
गणैर्नानाविधैः गेयैर्गीयमानश्च किंनरैः
प्रफुल्लनयनैर्दृष्टः कोऽयं धन्यो महातपाः
पप्रच्छुरमराः सर्वे कोऽयं रुद्रनिभो गणः 5.2.19.
पृष्टस्तदा सुरैः सर्वैर्विस्मयाविष्टमानसैः
देवानां पुरतो देवि निःशेषं कथितं तदा
हृष्टेन तेन मे दत्तं गणत्वं यत्सुदुर्लभम्
पप्रच्छुरमरास्तच्च सादरं गणसत्तम
महाकालवने पुण्ये लंघितं चरता त्वया
उपायस्तेन कथितो देवानां पुरतस्तदा
ईशानेश्वरदेवस्य तिष्ठतीशानभागतः
निर्माल्यलंघनोद्भूतं यत्पापं जायते महत्
ततो देवगणाः सर्वे महाकालवने पुनः
यथा लिंगं च तद्दृष्टं सर्वदोषक्षयंकरम् दोषो नष्टः सुराणां च ततो नामास्य चक्रिरे ।। 5.2.19.
अस्माकं तेन कथितं नागचंडेन धीमता
कृत्वास्य नाम ते देवा जग्मुः स्वर्गेहमुत्तमम् निर्माल्यलंघनोद्भूतं तेषां नश्यति पातकम्
नागचंडेश्वरं देवं ये पश्यंति दिनेदिने
आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम्
प्राप्नोत्यभिमतान्कामान्देवानामपि दुर्लभान्
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण धनवानिह जायते
दक्षकोपात्त्वं च देवि पुरा प्राणैर्विसर्जितैः
प्रारब्धा च मया देवि त्वया सार्द्धं रतिस्तदा अनुरागवशाच्चैव मन्मथेन प्रपीडिता
महारतिं समीक्ष्याथ देवाः संक्षुब्धमानसाः
दिव्यं वर्षशतं रुद्रो गौर्या सह सदा रतिम्
अनयोर्बीजसंपत्योः पुत्रो यो हि भवेत्तदा
तस्य तेजोपि नो वोढुं समर्था निश्चितं वयम्