तदग्रे सरसि स्नात्वा वसेत्तत्र सुनिश्चितम्
अयोध्यारक्षको वीरः सर्वकामार्थसिद्धिदः
गंधपुष्पादिधूपादि नैवेद्यादिविधानतः यंयं काममिहेच्छेत तंतं काममवाप्नुयात्
एतस्माद्द्क्षिणेभागे सुरसानाम राक्षसी
तां संपूज्य नरो भक्त्या सर्वान्कामानवाप्नुयात्
लंकास्थानादिहानीता रामेणोत्कृष्टकर्मणा
संपूज्य विधिवत्तस्या दर्शनं कार्यमादरात् कर्त्तव्यः सुप्रयत्नेन गीतवादित्रसंयुतैः ।। 2.8.10.
नवरात्रे तृतीयायां यात्रा सांवत्सरी भवेत् नानासंगीतवादित्रनृत्योत्सवमनोहरा
एवं कृते न संदेहः सर्वदा रक्षितो भवेत्
एतत्पश्चिमदिग्भागे वर्तते परमो मुने पूजनीयः प्रयत्नेन गंधपुष्पाक्षतादिभिः
यस्य पूजावशान्नॄणां सिद्धयः करसंश्रिताः
सरयूसलिले स्नात्वा पिंडारकं च पूजयेत्
तस्य यात्रा विधातव्या सपुष्या नवरात्रिषु
यस्य दर्शनतो नॄणां विघ्नलेशो न विद्यते
तस्मात्स्थानत ऐशाने रामजन्म प्रवर्त्तते
विघ्नेश्वरात्पूर्वभागे वासिष्ठादुत्तरे तथा
यद्दृष्ट्वा च मनुष्यस्य गर्भवासजयो भवेत् 2.8.10.
नवमीदिवसे प्राप्ते व्रतधारी हि मानवः
कपिलागोसहस्राणि यो ददाति दिनेदिने
आश्रमे वसतां पुंसां तापसानां च यत्फलम्
नियमस्थं नरं दृष्ट्वा जन्मस्थाने विशेषतः
तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात्
मन्वंतरसहस्रैस्तु काशीवासेषु यत्फलम् .
गयाश्राद्धं च ये कृत्वा पुरुषोत्तम दर्शनम्
मथुरायां कल्पमेकं वसते मानवो यदि
पुष्करेषु प्रयागेषु माघे वा कार्त्तिके तथा 2.8.10.
कल्पकोटिसहस्राणि ह्यवन्तीवासतो हि यत्
षष्टिवर्षसहस्राणि भागीरथ्यवगाहजम्
निमिषं निमिषार्द्धं वा प्राणिनां रामचिन्तनम्
यत्र कुत्र स्थितो यस्तु ह्ययोध्यां मनसा स्मरेत्