लिंगमध्यात्समुत्पन्ना वाणी सुखकरी शुभा
नामास्य चक्रुर्देवेशास्तदा कलकलेश्वरम्
यस्तमर्चयते भक्त्या देवं कलकलेश्वरम् विप्रं कुर्युर्वरारोहे कलहो न भवेद्गृहे
सुशीला गृहिणी तस्य सुरूपा सुभगा प्रिये
ये पश्यंति चतुर्द्दश्यां देवं कलकलेश्वरम्
न च शत्रुभयं तेषां जायते गिरिपुत्रके
एष ते कथितो देवि प्रभावः पापनाशनः
निर्माल्यलंघनाप्तपापान्मुच्यते यस्य दर्शनात
तस्य प्रभावं सुभगं कथयाम्यथ विस्तरात्
पुरा देवर्षिगंधर्वाश्चारणा गुह्यकास्तथा
एतस्मिन्नंतरे शक्रो देवर्षिं नारदं मुनिम्
दृष्ट्वा विनयसंपन्नं ब्रह्मचर्यपरायणम्
त्वया दृष्टमिदं सर्वं त्रैलोक्यं भूर्भुवादिकम्
त्वत्तुल्यो नास्ति लोकेऽस्मिन्मु क्त्वैकं परमेष्ठिनम्
योगेन तपसा भक्त्या यत्त्वया परितोषितः
अतोऽहं प्रष्टुमिच्छामि कथ्यतां मम निश्चयम्
एवं श्रुत्वा तदा ध्यात्वा चिंतयामास नारदः 5.2.19.
देवराज स्मृतं पुण्यं क्षेत्रराजमनुत्तमम्
तस्माद्दशगुणं क्षेत्रं महाकालस्य कथ्यते
एतच्छ्रुत्वा सहस्राक्षो वर्णयित्वा च तं मुनिम्
अंतरिक्षस्थितो जिष्णुरद्राक्षीच्च सुरैः सह
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च
निर्माल्यलंघनाद्दोषो महान्भवति निश्चितम्
निर्माल्यदोषभीतास्ते क्षेत्रे न विविशुः सुराः
गणैर्नानाविधैः गेयैर्गीयमानश्च किंनरैः
प्रफुल्लनयनैर्दृष्टः कोऽयं धन्यो महातपाः
पप्रच्छुरमराः सर्वे कोऽयं रुद्रनिभो गणः 5.2.19.
पृष्टस्तदा सुरैः सर्वैर्विस्मयाविष्टमानसैः
देवानां पुरतो देवि निःशेषं कथितं तदा
हृष्टेन तेन मे दत्तं गणत्वं यत्सुदुर्लभम्