यदाप्युक्तं त्वया दैन्यान्मदर्थे गच्छ नारद
सत्येयं लौकिकी गाथा न वृथा परिजायते
अवश्यमर्थी प्राप्नोति खंडनां तुंडमुंडनाम्
तस्या मे नियतस्त्वेष ह्यवमानः पदेपदे
नाकुलीना वृथाचारा न दुष्टा न समत्सरा
अकुलीनो वृथाचारो मात्सर्येणाश्रितः सदा
आदित्यस्त्वां विजानातु भगवान्द्वादशात्मकः
पूषादेवो विजानाति द्वादशात्मा दिवाकरः
यत्तु मामाह कृष्णेति महाकालेति विश्रुतः 5.2.
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षंतुमर्हसि
मन्यते तावदात्मानमन्येभ्यो रूपवत्तमम्
तदेतरं विजानाति ह्यात्मानं नेतरं जनम्
स नास्तिकोप्युद्विजते जनः किं पुनरास्तिकः
अनात्मज्ञासि गिरिजे मृडे पंडितमानिनि
काठिन्यं कष्टमभ्येति धातुभ्यो बहुघातिता
इत्युक्ताऽसि मया देवि पुनः प्रोक्तं त्वया वचः
व्यालेभ्योऽनेकजिह्वत्वं भस्मतः स्नेहवर्जनम्
श्मशानवासाद्भीरुत्वं नग्नत्वं च न लज्जया
एवं तदाभवद्रौद्रः कलहो भयकृच्छुभे 5.2.
भीताश्च देवगंधर्वा यक्षगंधर्वराक्षसाः
लिंगमध्यात्समुत्पन्ना वाणी सुखकरी शुभा
नामास्य चक्रुर्देवेशास्तदा कलकलेश्वरम्
यस्तमर्चयते भक्त्या देवं कलकलेश्वरम् विप्रं कुर्युर्वरारोहे कलहो न भवेद्गृहे
सुशीला गृहिणी तस्य सुरूपा सुभगा प्रिये
ये पश्यंति चतुर्द्दश्यां देवं कलकलेश्वरम्
न च शत्रुभयं तेषां जायते गिरिपुत्रके
एष ते कथितो देवि प्रभावः पापनाशनः
निर्माल्यलंघनाप्तपापान्मुच्यते यस्य दर्शनात
तस्य प्रभावं सुभगं कथयाम्यथ विस्तरात्
पुरा देवर्षिगंधर्वाश्चारणा गुह्यकास्तथा