सर्वदुःखोपशमनं सर्वपाप प्रमोचनम्
मम देवि त्वया सार्द्धं कलहः समपद्यत
यदा त्वं हिमशैलस्य दुहिता वरवर्णिनि
विनिवृत्ते विवाहे च त्वया सार्द्धं वरानने
नीलोत्पलनिभप्रख्या नीलकुंचितमूर्द्धजा मध्ये समुपविष्टासि कृष्णांजनसमप्रभा
कालि सुंदरि मत्पार्श्वे वल्लभे त्वमुपाविश
भुजंगीवासिता शुभ्रे संश्लिष्टा चंदने तरौ
इत्युक्तासि मया देवि गिरिजे चारुहासिनि
यदा त्वया मदर्थे हि प्रेरिता वेदपारगाः 5.2.
तदा त्वया मदर्थेऽपि प्रार्थितो जनको मम
यदाप्युक्तं त्वया दैन्यान्मदर्थे गच्छ नारद
सत्येयं लौकिकी गाथा न वृथा परिजायते
अवश्यमर्थी प्राप्नोति खंडनां तुंडमुंडनाम्
तस्या मे नियतस्त्वेष ह्यवमानः पदेपदे
नाकुलीना वृथाचारा न दुष्टा न समत्सरा
अकुलीनो वृथाचारो मात्सर्येणाश्रितः सदा
आदित्यस्त्वां विजानातु भगवान्द्वादशात्मकः
पूषादेवो विजानाति द्वादशात्मा दिवाकरः
यत्तु मामाह कृष्णेति महाकालेति विश्रुतः 5.2.
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षंतुमर्हसि
मन्यते तावदात्मानमन्येभ्यो रूपवत्तमम्
तदेतरं विजानाति ह्यात्मानं नेतरं जनम्
स नास्तिकोप्युद्विजते जनः किं पुनरास्तिकः
अनात्मज्ञासि गिरिजे मृडे पंडितमानिनि
काठिन्यं कष्टमभ्येति धातुभ्यो बहुघातिता
इत्युक्ताऽसि मया देवि पुनः प्रोक्तं त्वया वचः
व्यालेभ्योऽनेकजिह्वत्वं भस्मतः स्नेहवर्जनम्
श्मशानवासाद्भीरुत्वं नग्नत्वं च न लज्जया
एवं तदाभवद्रौद्रः कलहो भयकृच्छुभे 5.2.
भीताश्च देवगंधर्वा यक्षगंधर्वराक्षसाः