आराधयध्वं देवेशं लिंगं सर्वार्थसाधकम्
उर्वश्या मम वाक्येन भर्त्ता प्राप्तः पुरूरवाः
महाकालवने रम्ये लिंगाराधनकाम्यया
रंभे प्राप्स्यसि सौभाग्यं स्वर्गलोकं यशस्विनि
तस्मात्त्रिविष्टपं गच्छ संघेनानेन पूजिता अतोप्सरेश्वरः ख्यातो ययौ ख्यातिं जगत्त्रये ।। 5.2.17.
ये समाराधयिष्यंति भक्त्या चाप्सरसेश्वरम्
प्रेरयिष्यंति ये लोके दर्शनार्थं यशस्विनि
किं दानैः किं तपोभिश्च किं यज्ञैर्बहुदक्षिणैः
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण कलहो नैव जायते
सर्वदुःखोपशमनं सर्वपाप प्रमोचनम्
मम देवि त्वया सार्द्धं कलहः समपद्यत
यदा त्वं हिमशैलस्य दुहिता वरवर्णिनि
विनिवृत्ते विवाहे च त्वया सार्द्धं वरानने
नीलोत्पलनिभप्रख्या नीलकुंचितमूर्द्धजा मध्ये समुपविष्टासि कृष्णांजनसमप्रभा
कालि सुंदरि मत्पार्श्वे वल्लभे त्वमुपाविश
भुजंगीवासिता शुभ्रे संश्लिष्टा चंदने तरौ
इत्युक्तासि मया देवि गिरिजे चारुहासिनि
यदा त्वया मदर्थे हि प्रेरिता वेदपारगाः 5.2.
तदा त्वया मदर्थेऽपि प्रार्थितो जनको मम
यदाप्युक्तं त्वया दैन्यान्मदर्थे गच्छ नारद
सत्येयं लौकिकी गाथा न वृथा परिजायते
अवश्यमर्थी प्राप्नोति खंडनां तुंडमुंडनाम्
तस्या मे नियतस्त्वेष ह्यवमानः पदेपदे
नाकुलीना वृथाचारा न दुष्टा न समत्सरा
अकुलीनो वृथाचारो मात्सर्येणाश्रितः सदा
आदित्यस्त्वां विजानातु भगवान्द्वादशात्मकः
पूषादेवो विजानाति द्वादशात्मा दिवाकरः
यत्तु मामाह कृष्णेति महाकालेति विश्रुतः 5.2.
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षंतुमर्हसि