बाहवस्ते दिशः सर्वाः कुक्षिश्चैव महार्णवः 5.2.16.
इंद्रसोमाग्निवरुणा देवासुरमहोरगाः
त्वया व्याप्तानि भूतानि सर्वाणि भुवनेश्वर
भयानामपनेतासि त्वमेकः शत्रुसूदनः
न च विक्रमणैर्देव निर्वाणमगमत्परम्
आराधयित्वा सर्वे ते नमस्यंति च सर्वशः
धूमावृता महा ज्वाला यया दग्धः स दानवः
स्वाधिकारांश्च संप्रापुर्लिंगस्यास्य प्रभावतः
ऐश्वर्यशीलमस्यास्तीत्यस्माकं च विनिश्चितम्
ईशानेश्वरसंज्ञं तु ये समाराधयंति च
पूज्यमानः सदा देवैर्गंधर्वाप्सरसांगणैः 5.2.16.
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्त्रियः कुमारिकाः
यः करोति नरः सम्यग्दर्शनं नियमस्थितः
सर्वदा सर्वकार्येषु ते समर्था यशस्विनि
एवं ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण लोकोऽभीष्टानवाप्नुयात्
नंदनाख्ये वने देवि सर्वकामसमन्विते
शुककोकिलचक्राह्वचकोरकुररावृते
तत्रोपविष्टो वृत्रारिः सुरज्येष्ठश्च सेवितः
ततोन्यचित्ता संजाता किंचित्स्मृत्वा प्रमादतः
चुकोप च सुरश्रेष्ठस्तस्याः शापं ददौ किल तस्मात्तु मानुषे लोके गच्छ त्वं निष्प्रभा सती
अथेंद्रकोपसंक्षोभात्पतिता भुवि साप्सराः
करुणं विलपंती च किं मया दुष्कृतं कृतम्
अथाप्सरोगणः सर्वः सखीगण समन्वितः तस्याः शोकाग्निदाहेन संतप्तोऽप्सरसां गणः
सुसुप्ता पद्मिनी साभ्रे यथा नैव विराजते 5.2.17.
सखीगणैः परिवृता रंभा दृष्टा वरानने
कस्मादप्सरसः सद्यो दृश्यंते शोकविह्वलाः
पप्रच्छ च समागत्य कस्मादप्सरसो वराः
वृत्तांतं कथयामासुस्ताश्च तस्मै पुरातनम्
उपायं कथयामास हितं तासां प्रयत्नतः