एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण ऐश्वर्यं जायते नृणाम्
तुहुंडेन पुरा देवि सर्वे ह्युपद्रुताः सुराः
नंदनाख्यं वनं सर्वं तदधीनमभूत्किल
उच्चैःश्रवससंज्ञं तु हृतवान्दानवेश्वरः
स्वर्गमार्गः खिलीभूतस्तद्भयेन ह्यभूत्सति
तस्मिन्काले च कालज्ञो नारदोऽथ महामुनिः
देवैर्नमस्कृतः सोऽथ पूजितश्च यथाविधि
पप्रच्छुरथ ते मंत्रं नारदं मुनिसत्तमम्
ईदृक्काले समायाते किं कर्त्तव्यं महामुने
मुहूर्तं ध्यानमालंब्य किंचिन्मील्य च लोचने 5.2.16.
महाकालवने रम्ये शीघ्रं गच्छंतु विह्वलाः सेवध्वं परमं लिंगमीशानेश्वरसंज्ञकम्
पुरा चेशानकल्पे तु ईशानेन सुखेन हि उत्तमांगपदं लब्धं शंकरस्य च मूर्द्धनि
तस्याराधनमात्रेण मनोऽभीष्टं हि लभ्यते
नारदस्य वचः श्रुत्वा देवा मुदितमानसाः
ईशानेशान ईशान तत्पुरुष नमोऽस्तु ते
त्र्यक्ष भर्ग महादेव उमाकांत नमोनमः
नमः शंभो नमो रुद्र विरूपाक्ष नमोनमः
स्थावराणि च भूतानि जंगमानि चराणि च
शिरस्ते गगनं देवा नेत्रे शशिदिवाकरौ
बाहवस्ते दिशः सर्वाः कुक्षिश्चैव महार्णवः 5.2.16.
इंद्रसोमाग्निवरुणा देवासुरमहोरगाः
त्वया व्याप्तानि भूतानि सर्वाणि भुवनेश्वर
भयानामपनेतासि त्वमेकः शत्रुसूदनः
न च विक्रमणैर्देव निर्वाणमगमत्परम्
आराधयित्वा सर्वे ते नमस्यंति च सर्वशः
धूमावृता महा ज्वाला यया दग्धः स दानवः
स्वाधिकारांश्च संप्रापुर्लिंगस्यास्य प्रभावतः
ऐश्वर्यशीलमस्यास्तीत्यस्माकं च विनिश्चितम्
ईशानेश्वरसंज्ञं तु ये समाराधयंति च