अकीर्तिः कीर्त्त्यते यस्य लोके भूतस्य कस्यचित्
तस्मात्कल्याणवृत्तः स्यादन्यथा पतनं भुवि
अत्यंतं श्लाघयाम्यत्र कीर्त्तिं स्वर्गकरां पराम् 5.2.15.
यावत्कीर्त्तिर्मनुष्याणां वर्त्तते भुवि चाक्षया
न स्वेदो न च दौर्गंध्यं पुरीषं मूत्रमेव वा उह्यंते ते विमानैश्च नानाभरणभूषिताः
एवं विमृश्य नृपतिरिंद्रद्युम्नो वरानने
यत्र तेपे तपस्तीव्रं मार्कण्डेयो महामुनिः पप्रच्छ विनयोपेतस्तमृषिं शंसितव्रतम्
विदितास्तव धर्मज्ञ देवदानवराक्षसाः
न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजोत्तम कथं कीर्त्तिर्ध्रुवा लोके जायते किं तपःफलात्
यावत्कीर्तिर्भूमिसंस्था तावद्वस सुरैः सह
कल्कलेश्वरदेवस्य समीपे वाम भागतः
तस्याभ्यर्चनमात्रेण लप्स्यसे कीर्तिमुत्तमाम्
गत्वा स पूजयामास तल्लिंगं कीर्तितं त्विदम् 5.2.15.
अन्तरिक्षे विमानस्था प्रोचुर्वाचं नराधिपम्
अद्यप्रभृति राजेंद्र लिंगं त्वन्नाम नामतः
इन्द्रद्युम्नेश्वरं देवं पूजयिष्यंति ये नराः
स्वर्गं यास्यंति ते हृष्टाः स्तूयमानाः सुरर्षिभिः
दर्शनं ये करिष्यंति लोभाद्वापि प्रसंगतः
न स्वर्गात्पतनं तेषां यावदिंद्राश्चतुर्द्दश ते कुलं तारयिष्यंति मातृकं पैतृकं सदा
इत्युक्ता त्रिदशाः सर्वे लिंगं संपूज्य यत्नतः
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण ऐश्वर्यं जायते नृणाम्
तुहुंडेन पुरा देवि सर्वे ह्युपद्रुताः सुराः
नंदनाख्यं वनं सर्वं तदधीनमभूत्किल
उच्चैःश्रवससंज्ञं तु हृतवान्दानवेश्वरः
स्वर्गमार्गः खिलीभूतस्तद्भयेन ह्यभूत्सति
तस्मिन्काले च कालज्ञो नारदोऽथ महामुनिः
देवैर्नमस्कृतः सोऽथ पूजितश्च यथाविधि
पप्रच्छुरथ ते मंत्रं नारदं मुनिसत्तमम्
ईदृक्काले समायाते किं कर्त्तव्यं महामुने