असेव्याहं भविष्यामि दुष्टसंपर्क योगतः
यानि तीर्थानि भूलोके पाताले यानि संति वै 5.2.14.
तानि सर्वाणि सेवार्थमागत्य मम वाक्यतः
एवमुक्ता तदा शिप्रा गृहीत्वा कालकूटकम्
तद्विषं कालकूटाह्वं निक्षिप्तं लिंगमूर्द्धनि
पशुः पक्षी नरो वापि यो हि पश्यति तं शिवम्
तीर्थयात्रां ततः कर्तुं तत्रायातांस्तपोधनाः
ततो हाहाकृतं देवि त्रैलोक्यं सचराचरम् संजीविताश्च वै सर्वे दृष्टिपातेन पार्वति
तुष्टुवुः प्रणता विप्रा मामतो विविधैः स्तवैः
तैरुक्तं प्रणतैर्देवि लोकानां च हितार्थतः
ताः संरक्ष जगन्नाथ ह्येषोऽस्माकं वरः प्रभो
क्षेमारोग्यकरं लिंगं भविष्यति न संशयः 5.2.14.
लकुलीशस्तदा चायं देवः स्पृश्यो भविष्यति
कुटुंबेश्वर इति नाम्ना लोके ख्यातिं गमिष्यति
लकुलीशोऽथ तल्लिंगमारुरोह ममाज्ञया
कुटुम्बेश्वरसंज्ञं तु ये पश्यंति यशस्विनि
आश्विनासितपंचम्यां दर्श नं यः करिष्यति
महतीं श्रियमाप्नोति रोगैश्चापि प्रमुच्यते
दर्शनं ये करिष्यंति स्पर्शनं यजनं तथा
समीपे तु सरिच्छिप्रा वापीकूपेन संयुता
सोमवारेर्कवारे च स्नात्वा तस्यां समाहितः
राजसूयसहस्रस्य वाजपेयशतस्य च 5.2.14.
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण यशः कीर्तिश्च जायते
आसीद्राजा पुरा देवि इंद्रद्युम्नो महीपतिः
दृष्ट्वा सोऽथ बहून्यज्ञान्भूमौ प्रचुरदक्षिणान्
स चाथ प्रत्युतः स्वर्गान्नष्टकीर्तिर्यदा क्षितौ पतितश्चिंतयामास भ्रशं शोकपरिप्लुतः
कृतस्य कर्मणस्त्वत्र भुज्यते यत्फलं दिवि
सोऽत्र दोषो मतस्तस्यामतस्तत्पतनं च यत्
स्वर्गभाजो भवंतीह यावत्कीर्तिश्च जायते यावत्स शब्दो भवति तावत्पुरुष उच्यते