देवानामनुकंपार्थमनंगोऽसौ कृतो मया
तत्र गत्वा ह्यनंगोऽपि भक्तिभावसमन्वितः
प्रोक्तं तुष्टेन लिंगेन काम काममवाप्स्यसि
जन्म प्राप्स्यति रुक्मिण्या गर्भे कृष्णस्य संगमात्
अनंगेन त्वया यस्मान्मनसा तोषि तोऽपि सन्
ये त्वां पश्यंति कंदर्पं भक्त्या परमया युताः
दीर्घायुषो भविष्यंति रूपं तेषां भविष्यति 5.2.13.
ऐश्वर्यं परमान्भोगान्स्त्रियो दिव्यकलान्विताः
चैत्रशुक्लत्रयोदश्यां ये मां पश्यंति भक्तितः
यक्षा गणेश्वराः सिद्धाः सिद्धगंधर्वसेविताः
इत्युक्तः कामदेवोपि लिंगेन परमेश्वरि
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण गोत्रवृद्धिश्च जायते
यदा देवासुरैः पूर्वं मथितः क्षीरसागरः
कालकूटमयं रौद्रं विषं ज्वालाविभीषणम्
ततो देवगणाः सर्वे सासुरा यक्षराक्षसाः
स्तुतोहं विविधैः स्तोत्रैरिदमुक्तं वरानने
अन्यथा चिंतितं कार्यं दैवेन कृतमन्यथा
उत्पन्नं कालकूटं तु येन दग्धं चराचरम्
रक्षां कुरु जगन्नाथ शरणागतवत्सल
मया तेषां वचः श्रुत्वा त्रिदशानां यशस्विनि कंठे धृतं महारौद्रं कालकूटाह्वयं तदा
त्वं भीता सहसा नष्टा रूपं दृष्ट्वा तु मामकम् 5.2.14.१
नदीसंघसमायुक्ता गंगा दृष्टा च पार्श्वतः
कालकूटविषं गंगे वेगान्नय महोदधिम्
रौद्ररूपी च दुःसेव्यो दहत्येव न संशयः
ततस्तु यमुना प्रोक्ता न समर्था सरस्वती
अशक्तास्ताः समानेतुं कालकूटाह्वयं विषम्
शिप्रे पुत्रि ममादेशान्महाकाल वनं व्रज
विद्यते परमं लिंगं तस्मिंल्लिंगे नियोजय
एषास्मि प्रस्थिता देव तव वाक्यादसंशयम्