स्त्रियोऽमृतमया धन्या संसारे सारकारणम्
एताभिर्वरनारीभिर्जगदेवं वशीकृतम्
कृतश्चापि स्ववशता स्त्रीगौरवगतस्य च
स्त्रिय एव हि देवानामिंद्रादीनां भयाश्रयाः
पराभवः प्रभवति विवशत्वं च भीषणम्
इत्युक्तो मन्मथो भद्रे ब्रह्मणा च विसर्जितः
रतिप्रीतिसमायुक्तो झषकेतुर्मनोभवः 5.2.13.
पंडितांस्तापसान्वीरान्सुधियश्च जितेंद्रियान्
भूतप्रेतपिशाचांश्च यक्षगंधर्वकिंनरान्
ममार्थे च कृतो यत्नश्चिंतयित्वा पुनःपुनः तस्य देवस्य कः शक्तः क्षोभणार्थं मया विना
इत्युक्त्वा तु समायातो यत्राहं तपसि स्थितः
दृष्टवान्मां तदा कामः पिंजकूटजटासटम्
प्रेक्षमाणमृजुस्थानं नासावंशाग्र लोचनम्
प्रविष्टः कररंध्रेण मदनो हृदये मम
समाधेर्भावना दिव्या लक्ष्यप्रत्यक्षरूपिणी
उन्मत्ततां गतोऽहं वै विकृतिं मदनात्मिकाम्
दृष्टो मयात्महृदये मन्मथोऽपथ्यकारकः 5.2.13.
अमानुषीं व्रजेद्योनिं योगिनं प्रविशेद्यदि
एतस्मिन्नंतरे सोऽपि संतप्तो मदनो भृशम्
सहकारतरोर्मूले भूत्वा मधुसखस्तदा
स चापि हृदये प्राप्तो मदीये लीलया शरः
तन्नेत्रविस्फुलिंगेन क्रोशतां नाकवासिनाम्
तस्मिन्दग्धे ततः कामे रतिः शोकपरायणा
हा नाथ हा मम प्राण हा स्वामिन्किं जहासि माम्
एवं च विलपंतीं तां वागुवा चाशरीरिणी प्रसादाद्देवदेवस्य उत्थास्यति शिवस्य च
प्रार्थितोऽहं ततो देवि तस्मिन्नवसरे प्रिये
येनानेन प्रभो नष्टा सृष्टिर्वै धरणीतले ।। 5.2.13.
ततोऽहमब्रुवं देवि तां रतिं दीनभाषिणीम्
ततो दग्धं मयास्यांगं जीवये त्वत्प्रसादतः
तस्मादनंग एवैष प्रजासु विचरिष्यति