कथयामासुरत्युग्रं यथा रुद्धं जगत्त्रयम्
यूयं व्रतधरा भूत्वा कपालैश्च विभूषिताः 5.2.12.
भस्मभूषितसर्वांगाः क्षुद्रघंटाविराजिताः गच्छध्वं ब्रह्मणा सार्द्धं पादबद्धैश्च नूपुरैः
अथ ते लोकपालाश्च श्रुत्वा कृष्णस्य भाषितम्
तत्र दृष्टं महल्लिंगं तेजसां राशिमद्भुतम्
ततस्तु तस्य लिंगस्य वह्निज्वाला विनिःसृता
ज्ञात्वा लिंगस्य माहात्म्यं नाम चक्रुः समाहिताः
लोकपालेश्वरोनाम ख्यातिं यास्यति भूतले स्वस्वस्थानं गता दिव्यं यथापूर्वं मुदान्विताः
ये पश्यंति नरा देवि लोकपालेश्वरं शिवम्
न दारिद्र्यं न च व्याधिर्नाकालमरणं तथा
यो यमुद्दिश्य वै कामं दर्शनं तु करिष्यति
अश्वमेधस्य यज्ञस्य सम्यगिष्टस्य यत्फलम् 5.2.12.
प्रसंगेनापि यः पश्येल्लोकपालेश्वरं शिवम्
संक्रांतौ सोमवारे च चतुर्दश्यां विशेषतः
ते दुर्द्धर्षा भवंतीह शत्रूणां संगरे तथा
क्रमेण वारुणं लोकं धनदस्य यथासुखम्
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण सौभाग्यं जायते शुभम्
ब्रह्मणो ध्यायमानस्य प्रजाकामस्य पार्वति अलंकारावृतः कांतो दिव्यमंडनमंडितः
तं दृष्ट्वा परमं दिव्यं कांतं सौभाग्यशोभितम्
को भवान्किं निमित्तं तु इह वा किमुपागतः
ब्रह्मणो वचनं श्रुत्वा प्रोक्तं तेनैव सादरम् प्रजापते महाभाग किं करोमि दिशस्व माम्
ब्रह्मोवाच मया तु सृष्टिकामेन ये प्रजापतयः कृताः
त्वमग्रणीः प्रजासर्गे त्वदधीनमिदं जगत्
इत्युक्तो ब्रह्मणा देवि जगामादर्शनं स्मरः
मद्वचो न कृतं यस्माद्भवनेत्रोद्भवाग्निना ब्रह्माणं प्रणतो भूत्वा प्रह्वः प्रांजलिरब्रवीत्
प्रसीद देवदेवेश अनन्यगतिके मयि 5.2.13.
यस्मात्ते भक्तिरतुला ममोपरि महामते
कामिनीनां कटाक्षेषु केशपाशेषु चैव हि
वसंते कोकिलालापे ज्योत्स्नायां जलदागमे