संक्रांतौ सोमवारे च ग्रहणे चैव योऽर्चयेत् मोदते मम लोके च यावदिंद्राश्चतुर्दश
एष ते कथितो देवि प्रभावः पापनाशनः
द्वादशं विद्धि देवेशि लोकपालेश्वरं शिवम्
पुरा दैत्यगणा देवि प्रादुर्भूताः सहस्रशः
तैरियं वसुधा व्याप्ता सशैलवनकानना
ब्राह्मणा भक्षिताश्चैव वेद वेदांगपारगाः
विध्वस्ताः कलशाः सर्वे मृद्भांडादि च चूर्णितम्
कृता च धरणी देवि नष्टयज्ञोत्सवाभवत्
ऊचुः प्रांजलयः सर्वे क्षुधार्ता दुःखिताः कृताः
वयं त्रातास्त्वया पूर्वं नमुचेर्वृषपर्वणः
तथा रक्ष सुरश्रेष्ठ भयं नः समुपस्थितम्
तेषां तद्वचनं श्रुत्वा शंखचक्रगदाधरः 5.2.12.१
ते निष्क्रम्य ततो रात्रौ निघ्नंति द्विजसत्तमान्
अथ स्वर्गं गताः कांते जितः शक्रो मरुत्पतिः
गत्वाथ पश्चिमामाशां जलराजो विनिर्जितः
ततस्ते व्याकुला जाता विष्णुं शरणमागताः
महाकालवनं गत्वा देवा भक्त्या समाहिताः
भवतां भविता सिद्धिस्तत्र तस्य प्रसादतः
इति तस्य वचः श्रुत्वा कृष्णस्यामिततेजसः
तावत्तत्रैव संरुद्धा दैत्यैः शस्त्रधरैस्तदा
कथयामासुरत्युग्रं यथा रुद्धं जगत्त्रयम्
यूयं व्रतधरा भूत्वा कपालैश्च विभूषिताः 5.2.12.
भस्मभूषितसर्वांगाः क्षुद्रघंटाविराजिताः गच्छध्वं ब्रह्मणा सार्द्धं पादबद्धैश्च नूपुरैः
अथ ते लोकपालाश्च श्रुत्वा कृष्णस्य भाषितम्
तत्र दृष्टं महल्लिंगं तेजसां राशिमद्भुतम्
ततस्तु तस्य लिंगस्य वह्निज्वाला विनिःसृता
ज्ञात्वा लिंगस्य माहात्म्यं नाम चक्रुः समाहिताः
लोकपालेश्वरोनाम ख्यातिं यास्यति भूतले स्वस्वस्थानं गता दिव्यं यथापूर्वं मुदान्विताः
ये पश्यंति नरा देवि लोकपालेश्वरं शिवम्
न दारिद्र्यं न च व्याधिर्नाकालमरणं तथा