भविता भवतां सिद्धिरत्र नैव तपोधनाः
कामाच्च तपसो हानिरहंकाराच्च विस्मयः
स्पर्द्धया रहितो यस्तु कामक्रोधविवर्जितः
वासनावासितो यस्तु एकचित्तः समाहितः
मातृवत्परदाराणि परद्रव्याणि लोष्टवत्
ईदृशे पुरुषे विप्रास्तपःसिद्धिश्च दृश्यते
तस्माद्वर्षसहस्रेण नैव सिद्धिर्भविष्यति
महाकालवनं गत्वा यूयं सर्वे समाहिताः
दर्शनात्तस्य देवस्य लभ्यते सिद्धिरुत्तमा पूजयित्वापि भावेन संसिद्धिं परमां गताः ।। 5.2.11.
राज्ञा वसुमता पूर्वं खङ्गसिद्धिः सुदुर्लभा
पादुकागमनं लब्धं हैहयेन महात्मना
अदृश्यकरणं चैव प्राप्तं चानूरुणा पुरा अंजनं च तथा लब्धं लिंगस्यास्य च दर्शनात्
आकाशवचनं श्रुत्वा ते सिद्धा विस्मयान्विताः
सर्वसिद्धिप्रदं चैव ददृशुर्लिंगमुत्तमम्
ततःप्रभृति विख्यातो देवैः सिद्धेश्वरः परः न तेषां दुर्लभा सिद्धिर्भविष्यति महीतले
सिद्धेश्वरं गमिष्यंति भावहीनाः प्रसंगतः
महापातकसंयुक्तो यस्तु सिद्धेश्वरं स्मरेत्
नियमेन तु यः पश्येद्देवं सिद्धेश्वरं परम्
अष्टम्यां च चतुर्द्दश्यां कृष्णपक्षे विशेषतः 5.2.11.
अपुत्रो लभते पुत्रं निर्धनस्तु धनं लभेत्
संक्रांतौ सोमवारे च ग्रहणे चैव योऽर्चयेत् मोदते मम लोके च यावदिंद्राश्चतुर्दश
एष ते कथितो देवि प्रभावः पापनाशनः
द्वादशं विद्धि देवेशि लोकपालेश्वरं शिवम्
पुरा दैत्यगणा देवि प्रादुर्भूताः सहस्रशः
तैरियं वसुधा व्याप्ता सशैलवनकानना
ब्राह्मणा भक्षिताश्चैव वेद वेदांगपारगाः
विध्वस्ताः कलशाः सर्वे मृद्भांडादि च चूर्णितम्
कृता च धरणी देवि नष्टयज्ञोत्सवाभवत्
ऊचुः प्रांजलयः सर्वे क्षुधार्ता दुःखिताः कृताः
वयं त्रातास्त्वया पूर्वं नमुचेर्वृषपर्वणः