इत्यादिबहुशोभाढ्यं सर्वदिक्षु मनोहरम् यत्प्रभावादभूत्तीर्थं पावनं तत्सदा महत्
तत्पूर्वं गौतमस्यर्षेराश्रमं पावनं महत् प्रथमं ते मुनिश्रेष्ठ पितुः किल तपोनिधेः
नानाविधानि तीर्थानि चाश्रमाश्चैव सर्वशः
तमसानाम सा ज्ञेया वर्तते तटिनी शुभा
तत्र स्नानेन दानेन श्राद्धेन च विशेषतः
मार्गशीर्षे शुक्लपक्षे पञ्चदश्यां विशेषतः
तस्मादत्र प्रकर्तव्यं स्नानं निर्मलमानसैः
अतः परं प्रवक्ष्यामि तमसापरमं शुभम्
भाद्रे शुक्लचतुर्थ्यां तु तस्य यात्रा शुभावहा तस्य स्मरणमात्रेण सर्वविघ्नविनाशनम् ।। 2.8.9.
तस्माद्दक्षिणदिग्भागे भैरवो नाम नामतः
रक्षितो वासुदेवेन क्षेत्ररक्षार्थमादरात् मनोभीष्टफलप्राप्तिर्भैरवस्य सदाऽऽदरात्
मार्गशीर्षस्य कृष्णायामष्टम्यां तस्य निर्मिता
पशूपहारसंभूति कर्तव्यं पूजनं जनैः
निर्विघ्नं तीर्थवसतिर्भैरवस्य प्रसादतः
एतस्मिन्नुत्तरे भागे रम्यं भरतकुण्डकम्
तत्र स्नानं तथा दानं सर्वमक्षयतां व्रजेत्
यत्नतो देवताः पूज्या वस्त्रादिभिरलंकृतैः
रामचन्द्रं हृदि ध्यायन्निर्मलात्मा जितेन्द्रियः
तत्र चक्रे महत्कुण्डं भरतो नाम भूपतिः 2.8.9.
तत्कुंडे सुमहत्पुण्यं नानापुण्यसमन्वितम्
हंससारसचक्राह्व विहंगमविराजितम्
तत्र स्नानं महापुण्यं प्रमोदानन्दनिर्मलम् पितरस्तस्य तुष्यंति तुष्टाः स्युः सर्वदेवताः
स्वर्णं चान्नं विधानेन दातव्यं च द्विजन्मने
तत्पश्चिमदिशाभागे जटाकुण्डमनुत्तमम्
जटाकुण्डमिति ख्यातं सर्वतीर्थोत्तमोत्तमम्
पूर्वकुण्डेषु संपूज्यो भरतः श्रीसमन्वितः चैत्रकृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत्
इति परमविधानैः पूजयेद्रामसीते तदनु भरतकुण्डे लक्ष्मणं च प्रपूज्य
अजितं पूजयेद्विप्र तस्य सिद्धिः करे स्थिता
महोत्सवस्तु कर्तव्यो गीतवादित्रसंयुतः
एतस्मादुत्तरे विद्वन्वीरस्य शुभसूचकम्