भक्त्या तवाद्य तुष्टोस्मि त्वं मे सायुज्यतां व्रज
कर्कोटकेश्वरः ख्यातस्ततो देवो महेश्वरः
यस्तं पूजयते देवं भक्त्या युक्तो हि मानवः
व्याधितो व्याधितो मुक्तो दुःखी दुःखात्प्रमुच्यते
नियमेन प्रपश्यंति ये च कर्कोटकेश्वरम्
पंचम्यां च चतुर्दश्यां ये पश्यंति रवेर्दिने 5.2.10.
या नारी दुर्भगा सापि सौभाग्यं लभते सदा शिशुग्रहाश्च नश्यंति नापमृत्युभयं भवेत्
यंयं काममभिध्यायेन्मन सा भक्तिमान्नरः
एष ते कथितो देवि प्रभावः पापनाशनः
श्रीमहादेव उवाच लिंगमेकादशं विद्धि देवि सिद्धेश्वरं शुभम्
देव दारुवने पूर्वं विप्रा योगसमन्विताः
शाकाहारा निराहाराः पर्णाहारास्तथापरे
केचिद्वीरासनरता धूम्रपानरताः परे
कृच्छ्रचांद्रायणादीनि कुर्वन्त्यन्ये समाहिताः
दुःखार्त्ताश्चिंतयामासुः कथं सिद्धिर्भविष्यति
व्यर्था श्रुतिस्तथा जाता या गीता मुनिभिः पुरा
अंजनं गुटिका चैव पादुकागमनं तथा
एवं तेऽचिंतयसिद्धाः परमामर्षपूरिताः
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी 5.2.11.
माऽवमन्यध्वमार्या हि श्रुतिर्व्यर्था महीतले
भविता भवतां सिद्धिरत्र नैव तपोधनाः
कामाच्च तपसो हानिरहंकाराच्च विस्मयः
स्पर्द्धया रहितो यस्तु कामक्रोधविवर्जितः
वासनावासितो यस्तु एकचित्तः समाहितः
मातृवत्परदाराणि परद्रव्याणि लोष्टवत्
ईदृशे पुरुषे विप्रास्तपःसिद्धिश्च दृश्यते
तस्माद्वर्षसहस्रेण नैव सिद्धिर्भविष्यति
महाकालवनं गत्वा यूयं सर्वे समाहिताः
दर्शनात्तस्य देवस्य लभ्यते सिद्धिरुत्तमा पूजयित्वापि भावेन संसिद्धिं परमां गताः ।। 5.2.11.
राज्ञा वसुमता पूर्वं खङ्गसिद्धिः सुदुर्लभा