सर्पश्च कंबलोनाम लोकं पैतामहं गतः
यमुनांभसि संलीनः कालियो भयविह्वलः
एवं ते सर्परा जानो नागाः सुस्मितशोभने धृतराष्ट्रस्तथा नागः प्रयागमगमत्प्रिये
प्रणम्य तमथोवाच मातुरुत्संगसंस्थिताः
मात्रा शप्ता वयं देव क्रुद्धया तव संनिधौ
सर्पसत्रो हि भविता राज्ञो जन्मेजयस्य च ।। 5.2.10.
त्वं च वत्स ममादेशान्महाकालवनं व्रज
समाराधय देवेशं महामायासमीपतः
तत्र गत्वाथ कर्कोटः स्वयं देवि समाहितः तस्य तुष्टोथ देवेशो वरं प्रादाद्य शस्विनि
ये दंदशूकाः क्रूराश्च पापाचारा विषोल्बणाः
भक्त्या तवाद्य तुष्टोस्मि त्वं मे सायुज्यतां व्रज
कर्कोटकेश्वरः ख्यातस्ततो देवो महेश्वरः
यस्तं पूजयते देवं भक्त्या युक्तो हि मानवः
व्याधितो व्याधितो मुक्तो दुःखी दुःखात्प्रमुच्यते
नियमेन प्रपश्यंति ये च कर्कोटकेश्वरम्
पंचम्यां च चतुर्दश्यां ये पश्यंति रवेर्दिने 5.2.10.
या नारी दुर्भगा सापि सौभाग्यं लभते सदा शिशुग्रहाश्च नश्यंति नापमृत्युभयं भवेत्
यंयं काममभिध्यायेन्मन सा भक्तिमान्नरः
एष ते कथितो देवि प्रभावः पापनाशनः
श्रीमहादेव उवाच लिंगमेकादशं विद्धि देवि सिद्धेश्वरं शुभम्
देव दारुवने पूर्वं विप्रा योगसमन्विताः
शाकाहारा निराहाराः पर्णाहारास्तथापरे
केचिद्वीरासनरता धूम्रपानरताः परे
कृच्छ्रचांद्रायणादीनि कुर्वन्त्यन्ये समाहिताः
दुःखार्त्ताश्चिंतयामासुः कथं सिद्धिर्भविष्यति
व्यर्था श्रुतिस्तथा जाता या गीता मुनिभिः पुरा
अंजनं गुटिका चैव पादुकागमनं तथा
एवं तेऽचिंतयसिद्धाः परमामर्षपूरिताः
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी 5.2.11.
माऽवमन्यध्वमार्या हि श्रुतिर्व्यर्था महीतले