द्वारावरोधः कर्त्तव्यो यत्नतः शासनान्मम
उद्वसश्च ततो जातः स्वर्गो देवा विनिर्जिताः
स्वर्गद्वारे निरुद्धे तु शक्राद्या भयविह्वलाः
तस्याग्रे कथितं सर्वं स्वर्गद्वारावरोधनम्
प्रवेशो दुर्लभो जातः कृते द्वारावरोधने ।। केनोपायेन यास्यामः स्वर्गलोकं तथाविधम्
नास्माकं जायते प्रीतिर्विना स्वर्गं पितामह 5.2.9.
इति तेषां वचः श्रुत्वा प्रोक्तं तु ब्रह्मणा तदा
स्तुत्यो वंद्यो नमस्कार्यः सृष्टि संहारकारकः ३२ गोप्ता स्रष्टा समर्थश्च स चास्माकं परा गतिः
तस्मात्सर्वप्रयत्नेन गम्यतां शरणं शिवः
त्रिदशैः सहितः शक्र तूर्णं गच्छ ममाज्ञया
स्वर्गद्वार परं लिंगं विद्यते तत्तु वासव तमाराधयत क्षिप्रं स वः कामं प्रदास्यति
ब्रह्मणो वचनं श्रुत्वा त्रिदशा मुदिता भृशम्
स्वर्गद्वारप्रदं पुण्यं ददृशुर्लिंगमुत्तमम्
स्वर्गलोकं गताः सर्वे यथापूर्वं यशस्विनि
मयाज्ञप्ताश्च ते सर्वे निवर्त्तध्वं गणोत्तमाः ।। 5.2.9.
स्वर्गद्वारप्रदो देवो दृष्टो देवैर्न संशयः
स्वर्गद्वारं गताः सद्यः शक्राद्यास्त्रिदशा गणाः
ख्यातिं यास्यति भूलोके स्वर्गलोकप्रदायकः
ये पश्यंति नरा लोके स्वर्गद्वारेश्वरं शिवम्
स्वर्गद्वारेश्वरं देवं ये पश्यंति प्रसंगतः
अश्वमेधसहस्रेण यत्पुण्यं समुदाहृतम्
जन्मांतरसहस्रेण यत्पापं पूर्व संचितम्
अष्टम्यां वा चतुर्दश्यामथवा चंद्रवासरे ते देवि मे शरीरं तु प्रविष्टास्त्वपुनर्भवाः
दशकोटिसहस्राणि तस्मिँल्लिंगे तु पूजिते
स्पर्शनात्तस्य लिंगस्य कीर्त्तनाद्यजनात्तथा 5.2.9.
अकामावा सकामा वा ये पश्यंति दिने दिने
यस्य दर्शनमात्रेण विषैर्नैवाभिभूयते
मात्रा च भुजगाः शप्ताः स्ववचोभंगकारणात्
वह्निर्हि धक्ष्यते युष्मान्सत्रे जन्मेजयस्य हि
गताः सर्वे यथास्थानं जीवनार्थं यशस्विनि