एतस्मिन्नंतरे देवा कृतास्तेन पराङ्मुखाः
ततः कोपसमाविष्टो विष्णुर्दृष्ट्वा दिवालयान्
तदापतत्तु वेगेन चक्रं विष्णोः सुदर्शनम्
तस्मिंश्चक्रे तदा ग्रस्ते ह्यमोघे दैत्यसूदने
गृहीत्वा पादयोर्भूमौ निजघानातिदूरतः
रुधिरोद्गारसंयुक्तं वक्त्रात्तच्च विनिर्गतम् न तु पंचत्वमापन्नो गदया ताडितोऽपि सः ।। 5.2.9.
ततस्तु प्रमथाः सर्वे विष्णुवीर्यबलार्द्दिताः
मां दृष्ट्वा शूलहस्तं तु विष्णुश्चांतरधीयत
मत्तस्त्रासपरीतात्मा ततश्चादर्शनं गतः
मया निरूपितो देवि स्वर्गद्वारे गणस्तदा
द्वारावरोधः कर्त्तव्यो यत्नतः शासनान्मम
उद्वसश्च ततो जातः स्वर्गो देवा विनिर्जिताः
स्वर्गद्वारे निरुद्धे तु शक्राद्या भयविह्वलाः
तस्याग्रे कथितं सर्वं स्वर्गद्वारावरोधनम्
प्रवेशो दुर्लभो जातः कृते द्वारावरोधने ।। केनोपायेन यास्यामः स्वर्गलोकं तथाविधम्
नास्माकं जायते प्रीतिर्विना स्वर्गं पितामह 5.2.9.
इति तेषां वचः श्रुत्वा प्रोक्तं तु ब्रह्मणा तदा
स्तुत्यो वंद्यो नमस्कार्यः सृष्टि संहारकारकः ३२ गोप्ता स्रष्टा समर्थश्च स चास्माकं परा गतिः
तस्मात्सर्वप्रयत्नेन गम्यतां शरणं शिवः
त्रिदशैः सहितः शक्र तूर्णं गच्छ ममाज्ञया
स्वर्गद्वार परं लिंगं विद्यते तत्तु वासव तमाराधयत क्षिप्रं स वः कामं प्रदास्यति
ब्रह्मणो वचनं श्रुत्वा त्रिदशा मुदिता भृशम्
स्वर्गद्वारप्रदं पुण्यं ददृशुर्लिंगमुत्तमम्
स्वर्गलोकं गताः सर्वे यथापूर्वं यशस्विनि
मयाज्ञप्ताश्च ते सर्वे निवर्त्तध्वं गणोत्तमाः ।। 5.2.9.
स्वर्गद्वारप्रदो देवो दृष्टो देवैर्न संशयः
स्वर्गद्वारं गताः सद्यः शक्राद्यास्त्रिदशा गणाः
ख्यातिं यास्यति भूलोके स्वर्गलोकप्रदायकः
ये पश्यंति नरा लोके स्वर्गद्वारेश्वरं शिवम्
स्वर्गद्वारेश्वरं देवं ये पश्यंति प्रसंगतः