कृतपुण्या नरा देवि ते यांति परमं पदम्
तत्पापं विलयं याति लिंगस्यास्य च दर्शनात् तत्क्षपयति देवोऽयं चतुर्द्दश्यां समर्चितः
प्रसंगादपि ये पूजां करिष्यंति वरानने ऐश्वर्यधर्ममतुलं दीर्घमायुररोगताम्
निःसपत्नत्वमतुलं यच्चान्यत्तदवाप्नुयात्
विपाप्मानो भविष्यंति गणेशाश्च मम प्रिये ते पश्यंति तनुं त्यक्त्वा मदीयं भवनं प्रियम्
एष ते कथितो देवि प्रभावः पापनाशनः
सर्वपापहरं देवि स्वर्गमोक्षफलप्रदम्
यदा देवि समायाताः कैलासे पर्वतोत्तमे
निमंत्रिता वयं यज्ञे सकांताः सपरिग्रहाः
कच्चित्स्मृता विशालाक्षि किं वा तातस्य विस्मृतिः
तासां तद्वचनं श्रुत्वा अवमा नात्तदा त्वया
अथ ताः शोकसंतप्ता गता यत्र प्रजापतिः
तच्छुत्वा दारुणं वाक्यं दक्षो नोवाच किंचन
मया दृष्टा यदा देवि भूमौ पंचत्वमागता
ते गत्वाथ गणा रौद्राः शतशोऽथ सहस्रशः मुमुचुः शरवर्षाणि कुर्वंतो भैरवान्रवान्
ततो देवगणाः सर्वे वसवः सह भास्करैः 5.2.9.१
युद्धाय च विनिष्क्रांता मुमुचुः सायकान्सितान् मुमुचुः शरवर्षाणि वारिधारा यथा घनाः
तेषां मध्ये गणो नाम वीरभद्रो महाबलः
स तु तेन प्रहारेण विसंज्ञो निषसाद ह
स हतः सहसा तेन गजेंद्रो भेरवान्रवान्
एतस्मिन्नंतरे देवा कृतास्तेन पराङ्मुखाः
ततः कोपसमाविष्टो विष्णुर्दृष्ट्वा दिवालयान्
तदापतत्तु वेगेन चक्रं विष्णोः सुदर्शनम्
तस्मिंश्चक्रे तदा ग्रस्ते ह्यमोघे दैत्यसूदने
गृहीत्वा पादयोर्भूमौ निजघानातिदूरतः
रुधिरोद्गारसंयुक्तं वक्त्रात्तच्च विनिर्गतम् न तु पंचत्वमापन्नो गदया ताडितोऽपि सः ।। 5.2.9.
ततस्तु प्रमथाः सर्वे विष्णुवीर्यबलार्द्दिताः
मां दृष्ट्वा शूलहस्तं तु विष्णुश्चांतरधीयत
मत्तस्त्रासपरीतात्मा ततश्चादर्शनं गतः
मया निरूपितो देवि स्वर्गद्वारे गणस्तदा