कपालैर्भूषितो निंद्यो विशेषेण तु विप्रहः
यस्मिन्यज्ञे समायाता आदित्या वसवस्तथा
ब्रह्मा विष्णुः सहस्राक्षो वरुणो वायुरेव च
सुपर्णा गिरयो नागाः सर्वे चाकारिताः क्रतौ
ब्रह्मर्षयो महाभागास्तथा देवर्षयोऽमलाः
अपवित्रमिति ज्ञात्वा कथं त्वं वक्तुमर्हसि
इत्युक्तोऽहं यदा विप्रैर्मया प्रोक्तं वचस्तदा 5.2.8.
इत्युक्ते वचने देवि ताडितोऽहं भृशं तदा
अथ प्रहस्य तत्क्षिप्त्वा तां वेदिं दर्भसंस्तृताम्
मयि नष्टे कपालं तत्क्षिप्तं मंडपबाह्यतः
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च
अथाहुर्ज्ञानिनः सर्वे नेदमन्यस्य चेष्टितम्
ततोऽहं विविधैः स्तोत्रैः स्तुतो विप्रैः पृथक्पृथक्
अहं तुष्टस्तदा देवि द्विजानामनुकंपया
तदा ते ब्राह्मणाः प्रोचुर्यदज्ञानाद्वधस्तव
ब्रह्महत्याविनाशाय प्रसादं कुरु नः प्रभो
द्विजानां च तदा तेषामग्रे कथितवानिदम् 5.2.8.
अनादिलिंगं तत्रासीच्छन्नं कालविपर्यये
कृता मयापि विप्रेंद्रा ब्रह्महत्या स्वयं पुरा
ब्रह्महत्या ततो जाता ममातीव सुदुःसहा
दह्यमानस्ततश्चाहं व्याप्तो वै ब्रह्महत्यया
गतः सर्वेषु तीर्थेषु नैव मुक्तस्तु हत्यया
एतस्मिन्नंतरे दैवी वागुवाचाशरीरिणी
महाकालवनं पुण्यं त्वया नाथ विनिर्मितम् न जानासि कथं क्षेत्रं महापातकनाशनम्
तस्मिन्क्षेत्रे महल्लिंगं गजरूपस्य संनिधौ
ततोऽहमागतस्तूर्ण वाक्यं श्रुत्वा तदोत्तमम्
मम हस्तात्तदा विप्राः कपालमपतद्भुवि 5.2.8.
पश्यंतु विप्रास्तं देवं कपालेश्वरसंज्ञ कम्
लिंगं दृष्टं तदा तैस्तु कपालैर्बहुभिवृतम्
अतोऽसौ भुवि विख्यातः कपालेश्वरसंज्ञकः