विमानवरमास्थाय कामगं रत्नभूषितम्
किं दानैर्विविधैर्दत्तैः किं यज्ञैर्विविधैः कृतैः
यंयं काममभिध्याय पूजयिष्यंति मानवाः
त्रिदशैश्च पुनः प्रोक्तं दृष्ट्वा मल्लिंगमुत्तमम्
पूजयिष्यंति ये धन्या देवं त्रिविष्टपेश्वरम्
इत्युक्त्वा पूजयामास भूयो लिंगं त्रिविष्टपम्
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण ब्रह्महत्या प्रणश्यति
पुरा वैवस्वते कल्पे त्रेताकाले समागते
उपविष्टेषु विप्रेषु हूयमाने हुताशने
जीर्णकंथावृतो देवि मुंडः खट्वांगधारकः कपालं च करे कृत्वा कपालकृतभूषणः
ब्राह्मणाश्च ततः क्रुद्धा दृष्ट्वा मां जाल्मरूपिणम्
असकृत्पापपापेति गच्छगच्छ विडंबिताः
अकपालानि शौचानि इति वेदेषु गीयते
मया प्रोक्तास्तु ते विप्राः श्रूयतां द्विजसत्तमाः
कर्त्तव्या च दया सद्भिः सर्वदा सर्वदेहिनाम्
अहं कापालिको विप्रो भस्मभूषितविग्रहः 5.2.8.
आराधयामि सततं महादेवं जगत्पतिम्
अघघ्नं विश्रुतं लोके प्रारब्धं हि मया द्विजाः
मदीयं वचनं श्रुत्वा तैः प्रोक्तं द्विजसत्तमैः
कपालैर्भूषितो निंद्यो विशेषेण तु विप्रहः
यस्मिन्यज्ञे समायाता आदित्या वसवस्तथा
ब्रह्मा विष्णुः सहस्राक्षो वरुणो वायुरेव च
सुपर्णा गिरयो नागाः सर्वे चाकारिताः क्रतौ
ब्रह्मर्षयो महाभागास्तथा देवर्षयोऽमलाः
अपवित्रमिति ज्ञात्वा कथं त्वं वक्तुमर्हसि
इत्युक्तोऽहं यदा विप्रैर्मया प्रोक्तं वचस्तदा 5.2.8.
इत्युक्ते वचने देवि ताडितोऽहं भृशं तदा
अथ प्रहस्य तत्क्षिप्त्वा तां वेदिं दर्भसंस्तृताम्
मयि नष्टे कपालं तत्क्षिप्तं मंडपबाह्यतः