पुरा वाराहकल्पे तु देवर्षिर्नारदोऽमलः
तत्रोद्यानवने रम्ये कल्पवृक्षैर्विराजिते
वीणावेणुरवैर्घुष्टे देवगंधर्वसेविते
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणे शुभे स्तूयमानं मुदा देवैः सि द्धचारणकिन्नरैः
पृष्टस्तु नारदो देवि वासवेन महामुनिः
महाकालवनं रम्यं सदानंदकरं शुभम्
पुण्यं पश्यंति ये लोका महाकालवनं शुभम्
स्वयं तिष्ठति देवोऽत्र सर्वभूतगणैर्वृतः
पृथिव्यां नैमिषं पुण्यं सर्वपापप्रणाशनम् 5.2.7.
ततो दशगुणं प्रोक्तं प्रयागं सर्वकामिकम्
प्राची सरस्वती पुण्या तस्माद्दशगुणा स्मृता
तस्माद्दशगुणं देवि कुरुक्षेत्रं विशिष्यते
तस्या दशगुणं श्रेष्ठं महाकालं विशिष्यते
षष्टि कोटिसहस्राणि षष्टिकोटिशतानि च
शक्तयो नव कोट्यस्तु तस्मिन्क्षेत्रे वसन्ति हि
कृमिकीटपतंगाश्च मृता यत्र ततः क्रतौ माहात्म्यमद्भुतं श्रुत्वा नारदात्सुरसत्तमः
सर्वदेव गणैः सार्द्धमाजगाम त्वरान्वितः १- त्रिविष्टपादप्यधिकं प्रलयेऽप्यक्षयं स्मृतम्
विचित्राणि च हर्म्याणि कांचनानि शुभानि च 5.2.7.
वज्रेंद्रनीलरचिताः शुद्धस्फटिकसंनिभाः दृष्ट्वा तथाविधं रम्यं महाकालवनोत्तमम्
नारदं प्रशशंसुस्ते सर्वे देवा मुदान्विताः
न कैलासं गमिष्यामो न च मेरुं तथाविधम्
एषामरावती श्रेष्ठा ह्येषा भोगवती शुभा
एतस्मिन्नंतरे देवि शून्यं जातं त्रिविष्टपम् गमनाय मतिं चक्रे कृत्वा देहमथात्मनः
त्यक्त्वा मां त्रिदशाः सर्वे महाकालवनं गताः
इत्युक्त्वा तत्क्षणं प्राप्तो महाकालवनोत्तमे ददर्श रमणीयं तैर्देवैः परिवृतं तदा
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी कर्कोटकस्य पूर्वे तु महामायाश्च दक्षिणे
इत्युक्तो देवदेवेन हृष्टस्तद्गतचेतसा
पूजयित्वा शुभैः पुष्पैरुवाचेदं वरानने 5.2.7.
ये त्वां पश्यंति यत्नेन अपि दुष्कृत कारिणः
अष्टम्यां च चतुर्द्दश्यां संक्रांतौ वा विशेषतः