अक्षयं प्रलये पुत्र महाकालवनं शुभम्
महापापहरं पुत्र दर्शनाद्दीप्तिदायकम्
पुण्यश्चैव पवित्रेण दुर्लभश्च भविष्यति
विरूपो रूपवांश्चैव त्वत्प्रसादाद्भविष्यति
यज्ञाश्चैवोपवासाश्च तीर्थं पिंडादिकं त्वया
सर्वेषां चैव रत्नानामाधिपत्यं करिष्यसि
इत्युक्तोऽसौ महादेवि दिव्यरूपो वरानने
लिंगेनोक्तः सुवर्णस्तु दिष्ट्यादिष्ट्येति कांचनम् 5.2.6.
स्थातव्यं मत्समीपे तु वह्निपुत्र त्वया सदा
इत्युक्तो देवि लिंगेन वह्निपुत्रोऽतिनिर्मलः
दीप्तिर्लब्धा सुवर्णेन ज्वालामालाकुला तदा
यस्तमर्चयते भक्त्या स्वर्णज्वालेश्वरं शिवम् ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनंतकम्
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः
यत्फलं पिंडदानेन गयायां लभते नरः
गायत्र्याः शतसाहस्रैः सम्यग्जप्तैश्च यत्फलम्
यत्पुण्यं सर्वदानेन दत्तेन विधिपूर्वकम्
पूजयंति चतुर्दश्यां स्वर्णज्वालेश्वरं तु ये
रक्षितं त्रिदशैर्देवि गणैर्नानाविधैस्तथा 5.2.6.
मम प्रसादात्तद्देवि दृश्यते लिंगमुत्तमम्
यस्य दर्शनमात्रेण लभ्यते तत्त्रिविष्टपम्
पुरा वाराहकल्पे तु देवर्षिर्नारदोऽमलः
तत्रोद्यानवने रम्ये कल्पवृक्षैर्विराजिते
वीणावेणुरवैर्घुष्टे देवगंधर्वसेविते
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणे शुभे स्तूयमानं मुदा देवैः सि द्धचारणकिन्नरैः
पृष्टस्तु नारदो देवि वासवेन महामुनिः
महाकालवनं रम्यं सदानंदकरं शुभम्
पुण्यं पश्यंति ये लोका महाकालवनं शुभम्
स्वयं तिष्ठति देवोऽत्र सर्वभूतगणैर्वृतः
पृथिव्यां नैमिषं पुण्यं सर्वपापप्रणाशनम् 5.2.7.
ततो दशगुणं प्रोक्तं प्रयागं सर्वकामिकम्