क्षुभ्यंति स्म समुद्राश्च चेलुश्च धरणीधराः
ऋषयो वालखिल्याद्या देवाः शक्रपुरोगमाः
सोच्छ्वासा कथयामासुर्जर्जरीकृतमस्तकाः
तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः
मया पृष्टास्तु ते सर्वे केनैते जर्जरीकृताः
कश्चासौ दानवो दुष्टो येन वै पीडिता भृशम्
ते मामूचुस्तदा देवा ब्रह्माद्या भयकारणम्
लोभात्सर्वे विनष्टाः स्म सुवर्णस्य च कारणात् 5.2.6.
इति तेषां वचः श्रुत्वा मया ज्ञातं वरानने
लोकत्रयविनाशश्च सहसा येन वै कृतः
ब्रह्महा वह्निपुत्रस्तु यमुद्दिश्य मृतो जनः
धातवो हि भविष्यंति तस्य देहे न संशयः
एतस्मिन्नंतरे वह्निर्दृष्ट्वा पुत्रस्य चेष्टितम्
आजगाम सुवर्णेन सार्द्धं देवि ममांतिकम्
रक्षणीयस्त्वया देव पुत्रोयं तव शंकर
त्वयि तुष्टे महादेव प्राप्योऽयं नात्र संशयः
इति तस्य वचः श्रुत्वा पितृदेवमुखस्य च
स्नेहान्मया वह्निपुत्र उत्संगे च कृतस्तदा 5.2.6.
ददामि ते महाभाग वरं वरय शोभनम्
अहमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि
अक्षयं प्रलये पुत्र महाकालवनं शुभम्
महापापहरं पुत्र दर्शनाद्दीप्तिदायकम्
पुण्यश्चैव पवित्रेण दुर्लभश्च भविष्यति
विरूपो रूपवांश्चैव त्वत्प्रसादाद्भविष्यति
यज्ञाश्चैवोपवासाश्च तीर्थं पिंडादिकं त्वया
सर्वेषां चैव रत्नानामाधिपत्यं करिष्यसि
इत्युक्तोऽसौ महादेवि दिव्यरूपो वरानने
लिंगेनोक्तः सुवर्णस्तु दिष्ट्यादिष्ट्येति कांचनम् 5.2.6.
स्थातव्यं मत्समीपे तु वह्निपुत्र त्वया सदा
इत्युक्तो देवि लिंगेन वह्निपुत्रोऽतिनिर्मलः