देवैः सर्वैस्ततो वह्निः प्रेरितो मम संनिधौ
ततो वह्निमुखे क्षिप्तं वीर्यं स्वं क्रीडता मया
तत्र गत्वा प्रचिक्षेप वीर्यमग्निः सुदुर्द्धरम्
जातं रम्यं ततो दिव्यं वीर्यशेषेण कांचनम्
अग्नेरपत्यं प्रथमं दृष्ट्वोत्पन्नं तु पार्वति
यक्षाः साध्याः पिशाचाश्च मनुष्या राक्षसाः खगाः
सुवर्णार्थे महान्नादो ममेदमिति जल्पताम्
अथावरणमुख्यानि नानाप्रहरणानि च 5.2.6.
असुरा असुरैः सार्द्धं मनुष्या मानुषैः सह
भूतैः सार्द्धं च भूतानि राक्षसैः सह राक्षसाः
पुत्रस्तु पितरं द्वेष्टि पिता पुत्रं तथैव च
मातरं स्वसुतो हंति माता पुत्रं हिनस्ति च
सुराणामसुराणां च सर्वं घोरतरं महत् तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च
सुवर्णार्थे महादेवि वमंतो रुधिरं बहु
असिशक्तिगदाऋष्ट्यो निपेतुर्धरणीतले
रुधिरेणावलिप्तांगा निहताश्च परस्परम्
हाहाकारः समभवद्भयकृच्च सहस्रशः
परिघैरायसैः पाशैर्वज्रकल्पैश्च मुष्टिभिः 5.2.6.
छिंधिभिंधि प्रधाव त्वं पातयाधिसरेति च
एवं तु तुमुले युद्धे वर्त्तमाने महाभये
क्षुभ्यंति स्म समुद्राश्च चेलुश्च धरणीधराः
ऋषयो वालखिल्याद्या देवाः शक्रपुरोगमाः
सोच्छ्वासा कथयामासुर्जर्जरीकृतमस्तकाः
तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः
मया पृष्टास्तु ते सर्वे केनैते जर्जरीकृताः
कश्चासौ दानवो दुष्टो येन वै पीडिता भृशम्
ते मामूचुस्तदा देवा ब्रह्माद्या भयकारणम्
लोभात्सर्वे विनष्टाः स्म सुवर्णस्य च कारणात् 5.2.6.
इति तेषां वचः श्रुत्वा मया ज्ञातं वरानने
लोकत्रयविनाशश्च सहसा येन वै कृतः