सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः
तावत्पतंति संसारे सुखदुःखसमाकुले
यदा पापक्षयः पुंसां तदा त्वद्दर्शनं भवेत्
ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम्
यत्फलं चाश्वमेधेन राजसूयेन यत्फलम्
ते नराः पशवो लोके तेषां जन्म निरर्थकम्
इत्युक्त्वा केशवो देवो ब्रह्मा चैव वरानने 5.2.5.
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण धनवानिह जायते
पुरा सार्द्धं त्वया देवि क्रीडतो मम मंदिरे
देवैः सर्वैस्ततो वह्निः प्रेरितो मम संनिधौ
ततो वह्निमुखे क्षिप्तं वीर्यं स्वं क्रीडता मया
तत्र गत्वा प्रचिक्षेप वीर्यमग्निः सुदुर्द्धरम्
जातं रम्यं ततो दिव्यं वीर्यशेषेण कांचनम्
अग्नेरपत्यं प्रथमं दृष्ट्वोत्पन्नं तु पार्वति
यक्षाः साध्याः पिशाचाश्च मनुष्या राक्षसाः खगाः
सुवर्णार्थे महान्नादो ममेदमिति जल्पताम्
अथावरणमुख्यानि नानाप्रहरणानि च 5.2.6.
असुरा असुरैः सार्द्धं मनुष्या मानुषैः सह
भूतैः सार्द्धं च भूतानि राक्षसैः सह राक्षसाः
पुत्रस्तु पितरं द्वेष्टि पिता पुत्रं तथैव च
मातरं स्वसुतो हंति माता पुत्रं हिनस्ति च
सुराणामसुराणां च सर्वं घोरतरं महत् तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च
सुवर्णार्थे महादेवि वमंतो रुधिरं बहु
असिशक्तिगदाऋष्ट्यो निपेतुर्धरणीतले
रुधिरेणावलिप्तांगा निहताश्च परस्परम्
हाहाकारः समभवद्भयकृच्च सहस्रशः
परिघैरायसैः पाशैर्वज्रकल्पैश्च मुष्टिभिः 5.2.6.
छिंधिभिंधि प्रधाव त्वं पातयाधिसरेति च
एवं तु तुमुले युद्धे वर्त्तमाने महाभये